SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ७७ संशयविपर्यासज्ञानोत्पत्तिरित्येवमीक्ष्यतां तद्वादिभिः स्वमनसि पर्यालोच्यतां अर्थाभावेऽपि संशयाद्युत्पत्तेः । न हि स्थाणुपुरुषात्मकः केशोंडुकस्वभावो वाऽर्थस्तज्ज्ञानोत्पत्तौ व्याप्रियते । ततो भागासिद्धमर्थान्वयव्यतिरेकानुविधानं ज्ञानस्येति ॥ अथाज्ञानमपि सन्निकर्षः प्रमाणमित्याशंकां निराकुर्वन्नाहसन्निधेरिद्रियार्थानामन्वयव्यतिरेकयोः ॥ कार्यकारणयोश्चापि बुद्धिरध्यवसायिनी ॥५॥ अध्यवसायिनी निश्चायिका । का बुद्धिर्ज्ञानमेव । कस्य सन्निधेरपि सन्निकर्षस्यापि न केवलमर्थस्येत्यपिशब्दार्थः । केषां इंद्रियार्थानां इंद्रियाणि चक्षुरादीनि अर्थाश्च रूपादयस्तेषां न केवलं संनिधेरपि तु अन्वयव्यतिरेकयोश्च सन्निकर्षस्य भावाभावयोश्च । तथा कार्यकारणयोश्च । कार्य सन्निकर्षः कारणमिंद्रियादिः तयोश्च बुद्धिरेवाध्यवसायिनी । ततः सैव प्रमाणं न सन्निकर्षादि तस्य प्रमेयत्वात् ।। अथालोकस्य ज्ञानकारणत्वं निराकुर्वन्नित्याहतमो निरोधि वीक्षंते तमसा नावृतं परं ॥ कुड्यादिकं न कुड्यादितिरोहितमिवेक्षकाः ६ वीक्षते विशेषेण नीलादिरूपतया पश्यति । के ईक्षकाः चक्षुष्मंतो जनाः । किं तमोऽधकारं पुद्गलपर्यायं । किंविशिष्टं For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy