________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
भट्टाकलंकप्रणीतं
अयमर्थ इति ज्ञानं विद्यान्नोत्पत्तिमतः ॥ अन्यथा न विवादः स्यात्कुलालादिघटादिवत
Acharya Shri Kailassagarsuri Gyanmandir
विद्याज्जानीयात् । किं ज्ञानं । कथं अयमर्थ इति । पुनर्न विद्यात् । कां उत्पत्तिं अहमस्मादुत्पन्नमिति स्वजन्म । कस्मात् अर्थतो घटादेः सकाशात् । इदं च प्रमेयं प्रतीतिसिद्धमेव । अन्यथा यद्यर्थात्वोत्पत्तिं ज्ञानं विद्यात् तदा वादिप्रतिवादिनोर्विवादो ज्ञानमर्थादुत्पन्नं नेति विप्रतिपत्तिः । किंवत् कुलालादिघटादिवत् यथा कुलालादेः सकाशाद्घटादेर्जन्मनि प्रतीतिसिद्धे कस्यापि न विवादोऽस्ति, तथाऽर्थात् ज्ञानजन्मन्यपि विवादो मा भूत् । अस्ति चायं विवादः । स्याद्वादिनां ज्ञानजन्मनीति ॥
अथानुमानात्तदुत्पत्तिसिद्धिः स्यादित्याशंक्याह -- अन्वयव्यतिरेकाभ्यामर्थश्रेत्कारणं विदः ॥ संशयादिविदुत्पादः कौतस्कुत इतीक्ष्यतां ४
चेद्यदि कारणं कथ्यते । कः अर्थो विषयः । कस्याः विदो ज्ञानस्य । काभ्यां अन्वयव्यतिरेकाभ्यां । सति भवनमन्वयः । असत्यभवनं हि व्यतिरेकः ताभ्यां । तथाहि ज्ञानमर्थ - कारणकं तदन्वयव्यतिरेकानुविधानादिति । तदा कौतस्कुतः स्यात् कुतस्कुत आगतः कौतस्कुतः । कः संशयादिविदुत्पादः
For Private And Personal Use Only