SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. अथोद्दिष्टानां प्रमाणादीनां लक्षणमाहज्ञानं प्रमाणमात्मादेरुपायो न्यास इष्यते ॥ नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः २ इष्यतेऽभ्युपगम्यते सकलविप्रतिपत्तीनां प्रागेव निरस्तत्वात् । किं प्रमाणं । किंविशिष्टं ज्ञानं जानाति ज्ञायतेऽ नेनेति ज्ञप्तिमानं वा ज्ञानमित्युच्यते । द्रव्यपर्याययोर्भेदाभेदविवक्षायां कादिसाधनोपपत्तेः । कस्य आत्मादेः आत्मा स्वरूपमादिर्यस्य बाह्यार्थस्य स आत्मादिस्तस्य स्वार्थस्य ग्राहकमित्यर्थः । अथवाऽऽत्मा चिद्रव्यमादिशब्देनावरणानां क्षयोपशमः क्षयश्चांतरंगं । बहिरगं पुनरिंद्रियाऽनिद्रियं गृह्यते । तस्मादुपजायमानमित्यध्याहारः । तथा इष्यते । कः नयः । किंरूपः अभिप्रायः विवक्षा । कस्य ज्ञातुः श्रुतज्ञानिनः । तथा इष्यते । कः न्यासो निक्षेपः । किंविशिष्टः उपायः अधिगमहेतुः नामादिरूपः । अर्थस्य स्वतःसिद्धत्वात् किमेतैः प्रमाणदिभिः इत्याशक्याहयुक्तीत्यादि । युक्तितः प्रमाणनयनिक्षेपैरेवार्थस्य जीवादेः परिग्रहः प्रमितिर्न स्वत इति । अथ नाकारणं विषय इति परमतं निराकर्तुमर्थस्य कारणत्वं प्रतिक्षिपति-- For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy