SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं त्पुष्टं नयेतरनिरूपणसस्यजातं ॥ तत्रार्थपाकपटुतां नयनिष्ठुरेयं । सौरी भजत्यखिललोकहिताय वृत्तिः॥१॥ इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसंज्ञायां पंचमः परिच्छेदः॥ समाप्तश्च नयप्रवेशो द्वितीयः अथेदानीमागमस्वरूपं निरूपयन् प्रवेशस्यादौ मध्ये मंगलभूतमिष्टदेवतागुणस्तोत्रमाधते प्रणिपत्य महावीर स्याहादेक्षणसप्तकं । प्रमाणनयनिक्षेपानभिधास्ये यथागमं ॥१॥ अभिधास्ये प्रतिपादयिष्यामि । कान् प्रमाणनयनिक्षेपान् प्रमाणे च नयाश्च निक्षेपाश्च प्रमाणनयनिक्षेपास्तान् । कथं यथागमं आगमः प्रवचनं तमनतिक्रम्य अनादिपरंपराप्रसिद्ध आर्षे यथा ते प्रतिपादितास्तथा तदनुसारेणाहमपि तान् वक्ष्ये न स्वरुचिरचितानित्यर्थः । किं कृत्वा प्रणिपत्य प्रणम्य । कं महावीरं पश्चिमतीर्थकरं । कथंभूतं स्याद्वादेक्षणसप्तकं स्यादस्तीत्यादिसप्तभंगमयो वादः स्याद्वादः ईक्षणानां सप्तकं ईक्षणसप्तकं स्याद्वाद एवेक्षणसप्तकं यस्माद्विनेयानां भवत्यसौ तथोक्तस्तं न खलु निरुपकारः प्रेक्षावतां प्रमाणा)ऽतिप्रसंगात् ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy