________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं
त्पुष्टं नयेतरनिरूपणसस्यजातं ॥ तत्रार्थपाकपटुतां नयनिष्ठुरेयं ।
सौरी भजत्यखिललोकहिताय वृत्तिः॥१॥ इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसंज्ञायां पंचमः परिच्छेदः॥
समाप्तश्च नयप्रवेशो द्वितीयः अथेदानीमागमस्वरूपं निरूपयन् प्रवेशस्यादौ मध्ये मंगलभूतमिष्टदेवतागुणस्तोत्रमाधते
प्रणिपत्य महावीर स्याहादेक्षणसप्तकं । प्रमाणनयनिक्षेपानभिधास्ये यथागमं ॥१॥
अभिधास्ये प्रतिपादयिष्यामि । कान् प्रमाणनयनिक्षेपान् प्रमाणे च नयाश्च निक्षेपाश्च प्रमाणनयनिक्षेपास्तान् । कथं यथागमं आगमः प्रवचनं तमनतिक्रम्य अनादिपरंपराप्रसिद्ध आर्षे यथा ते प्रतिपादितास्तथा तदनुसारेणाहमपि तान् वक्ष्ये न स्वरुचिरचितानित्यर्थः । किं कृत्वा प्रणिपत्य प्रणम्य । कं महावीरं पश्चिमतीर्थकरं । कथंभूतं स्याद्वादेक्षणसप्तकं स्यादस्तीत्यादिसप्तभंगमयो वादः स्याद्वादः ईक्षणानां सप्तकं ईक्षणसप्तकं स्याद्वाद एवेक्षणसप्तकं यस्माद्विनेयानां भवत्यसौ तथोक्तस्तं न खलु निरुपकारः प्रेक्षावतां प्रमाणा)ऽतिप्रसंगात् ॥
For Private And Personal Use Only