SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. स्वरूपं । किंविशिष्टं अनेकांतभाक् अनेकांतं द्रव्यपर्यायात्मतां भजत्यात्मसात्करोतीत्यनेकांतभाक् । पुनः कथंभूतं शक्यपरीक्षणमपि शक्यं परीक्षणं संशयादिव्यवच्छेदेन विवेचनं यस्य तथोक्तं लौकिकगोचरमपीत्यर्थः । कथं प्रत्यक्षं स्पष्टं यथा भवति तथा । किं कृत्वाऽभ्यस्य भावयित्वा । किं खमतं सर्वथैकांतदर्शनं निरन्वयविनाशादिभावनावहितचेतसोऽनेकांततत्त्वमधिगंतुमनलमिति कथं सर्ववेदित्वं तेषामित्यर्थः । ततः कारणात् भो अकलंक ज्ञानावरणादिकलंकरहित नमस्करवाणि । कस्मै ते तुभ्यं । कथंभूताय सर्वज्ञाय सर्वं लोकालोकवस्तुजातं जानातीति सर्वज्ञस्तस्मै । पुनः किंविशिष्टाय निरस्तबाधकधिये निरस्तमनेकांत तत्त्वभावनाबलाद्विश्लेषितं बाधकं दोषावरणद्वयं यस्याः सा निरस्तबाधका तादृशी धीर्यस्य तथोक्तस्तस्मै । भूयः किंभूताय स्याद्वादिने स्यात्क - थंचित्सदाद्यनेकांतात्मकं तत्त्वं वदतीत्येवंशीलस्तस्मै । न केवलमहमेव ते नमस्करोमि किंतु प्रेक्षावान् परीक्षकः सर्वोऽपि त्वामेव शरणं याति प्रतिपद्यते । नित्यप्रवृत्तवर्तमानविवक्षया एवं वचनात् । किंनामानं वीरं पश्चिमतीर्थकरं वर्धमानं । पुनरपि कथम्भूतं जिनं बहुविधविषमभवगहनभ्रमणकारणं दुष्कृतं जयतीति जिनः तं । तत्तीर्थकृतोपकारत्वात् शास्त्रकाराणामिति ॥ भट्टाकलंकशिशिरांशुगवीभिरेत For Private And Personal Use Only ७३
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy