SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ भट्टाकलंकप्रणीतं नौघैः समधिगतिः सम्यगधिगमो जीवादितत्त्वनिर्णयो भवति । किंभूतैः सप्तधाख्यैः सप्तधा नैगमादिसप्तप्रकारा आख्या नाम येषां तैरिति । प्रमाणनयैरधिगम इति वचनात् । प्रमाणप रिगृहीतार्थविषयत्वान्नयानां निर्विषयत्वमिति चेन्न, द्रव्यपर्यायात्मनो वस्तुनः प्रमाणेन परिगृहीतत्वात् । नयानां च तदेकदेशे द्रव्ये पर्याये वा प्रतिपक्षाविनाभाविनि प्रवृत्तेः । सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति प्रवचनात् ॥ ननु सौगतादिमतेऽपि तत्त्वस्य समधिगतिरस्तीत्याशंका यामाह - सर्वज्ञाय निरस्तबाधकधिये स्याद्वादिने ते नम- । स्तात्प्रयक्षमलक्षयन् स्वमतमभ्यस्याप्यनेकांतभाक् ॥ तत्त्वं शक्यपरीक्षणं सकलविन्नैकांतवादी ततः। प्रेक्षावानकलंक याति शरणं त्वामेव वीरं जिनम् ॥ २० ॥ न स्यात् सकलवित् त्रिकालगोचराशेषद्रव्यपर्यायवेदी न भवेत् । कः एकांतवादी एकांतं केवलं द्रव्यमेव पर्याय एव वा तत्त्वं वदति प्रतिपादयतीत्येवंशील एकांतवादी सुगतादिः । किं कुर्वन् अलक्षयन् अजानन् । किं तत्त्वं जीवादिवस्तु For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy