________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. - ७१ लानां देशकालांतरितसाध्यसाधनव्यक्तीनां भावः साकल्यं तेन । कथं चिंतया विना ऊहप्रमाणाभावे इत्यर्थः । न हि दृष्टांतधर्मिणि साध्यसाधनसंबंधदर्शनं साकल्येन व्याप्तिप्रतिपत्तौ समर्थमनुमानानर्थक्यप्रसंगात् । तद्रष्टुरभिज्ञत्वापत्तेश्व । तर्हि किं प्रमाणं तां स्फुटयतीति चेदुच्यते । एष तर्कः यः साकल्येन साध्यसाधनयोर्व्याप्तिं स्फुटयति ज्ञानं, स एव च सकलानुमानिकप्रसिद्धस्तर्क इत्युच्यते । ननु गृहीतग्राहित्वादस्याप्रामाण्यमित्याशंक्याह- अनधिगतविषयः । अनधिगतः प्रमाणांतरेणानिश्चितः विषयोऽ विनाभावो यस्यासौ तथोक्तः । किंविशिष्टः संज्ञानं सम्यक्ज्ञानं अर्थप्रमाणं भवतीति । तथा स्मरणं स्मृतिश्च प्रमाणं । किंविशिष्टं अधिगतार्थाविसंवादि अधिगतः प्रत्यक्षेणानुभूतोऽर्थो विषयस्तत्राविसंवादि विसंवादरहितमिति । एतच्च संज्ञानमिति । कस्मिन् सति प्रामाण्ये प्रमाणत्वे सति । कस्या अनुमायाः अनुमानस्य । क तत्कृतार्थैकदेशे तेन तर्केण कृतो निश्चितः अर्थोऽविनाभावस्तस्यैकदेशः साध्यं तत्रानुमानप्रामाण्यस्य स्मृतितर्कप्रामाण्याविनाभाविवादित्यर्थः । अथवा संज्ञानं च प्रत्यभिज्ञानं च प्रमाणमविसंवादाविशेषात् । न केवलमेतत्परोक्षमेव विकल्पात्मकं प्रमाणमपि तु सर्व प्रत्यक्षमपि विकल्पात्मकं प्रमाणं तस्यैव व्यवहारोपयोगित्वात् । निर्विकल्पकस्य क्वचिदप्यनुपयोगात् । अतः कारणात्तर्कादिवत् विकल्पात्मकैरेवं
For Private And Personal Use Only