SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीत प्रचुरविषयः संग्रहः सकलद्रव्यपर्यायव्यापी सर्वग्रहणात् । ततः पुनरभ्यधिकविषयो नैगमः सत्त्वासत्वयोर्गुणमुख्यभावेन ग्रहणात् । ततो. विषयापेक्षया नैगमादीनां पूर्वनिपातः सिद्धांते युक्तः । अत्र पुनायशास्त्रे समस्तनास्तिकविप्रतिपत्तिनिराकरणार्थ सकलपदार्थास्तित्वसूचनस्य संग्रहनयस्य पूर्वनिपाते विरोधाभावात् । ननु नयस्य विकल्पात्मकत्वान्न तत्त्वाधिगमसाधनत्वं स्मृत्यादिवदिति सौगतादिप्रत्यवस्थां प्रत्याचक्षाणः प्रकरणोपसंहारमाह-- व्याप्तिं साध्येन हेतोः स्फुटयति न विना चिंतयैकत्रदृष्टिः । साकल्येनैष तर्कोऽनधिगतविषयस्तत्कृतार्थंकदेशे ॥ प्रामाण्ये चानुमायाः स्मरणमधिगतार्थादिसंवादि सर्वं । संज्ञानं च प्रमाणं समधिगतिरतः सप्तधाख्यनयोधैः ॥ १९ ॥ न स्फुटयति न प्रकाशयति । का एकत्रदृष्टिः एकस्मिन्महानसादौ साध्यसाधनयोईष्टिदर्शनं प्रत्यक्षमित्यर्थः । कां व्याप्तिं अविनाभावं । कस्य हेतोः साधनस्य धूमादेः । केन सह साध्येनाम्न्यादिना सह । केन साकल्येन सक For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy