________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. एव दृश्यते इति कर्म । प्रयोजनापेक्षया देवदत्तेन कारयतीति करणं । दीयमानद्रव्यापेक्षया देवदत्ताय ददातीति संप्रदानं । अपायापेक्षया देवदत्तादपैतीति अपादानं । तत्रस्थद्रव्यापेक्षया देवदत्ते कुंडलमित्यधिकरणमिति अविरोधात् तथा प्रतीतेः । न हि प्रतीयमाने विरोधो नाम । तथा युगपदिव कालादिभेदतः कालदेशाकाराणां भेदः क्रमस्तेनापि षट्कारकी प्रकल्पेत । तथाहि अकरोदेवदत्तः करोतिकरिष्यतीति प्रतीतिबलायातत्वात् । अथवा तथा एकस्य षट्कारकीप्रकल्पनवत्कालाद्यपि प्रकल्प्येत । कुतः भेदतः कथंचिदर्थस्य भेदात् । सर्वथाऽभिन्ने सकलकालकारकादिभेदानुपपत्तेः । ततः स्याद्वाद एव श्रुतज्ञानविकल्पात् । सर्वेऽपि नैगमादयः सुनया दृष्टेष्टाविरोधात् । अन्यत्र दुर्नयास्तद्विरोधादिति सूक्तं भट्टाकलंकदेवैर्भेदाभेदेत्यादि । ननु नैगमादयः सिद्धांते नयाः प्रतिपादिताः। अत्र पुनः संग्रहादय इति कथमपसिद्धांतो न स्यादिति चेन्न अभिप्रायभेदात् । सर्वतस्तोकविषयो हीत्थंभूतस्तस्य क्रियाभेदादेवार्थभेदकत्वात् । ततो बहुविषयः समभिरूढस्य पर्यायशब्दभेदात् भेदकत्वात् । ततो बहुतरविषयः शब्दः तस्य कालादिभेदाढ़ेदकत्वात् । ततः पुनः ऋजुसूत्रो बहुतमविषयः शब्दगोचरेतरविवक्षितपर्यायविषयत्वात् । ततोऽप्यधिकविषयो व्यवहारः पर्यायविशिष्टद्रव्यग्रहणात् । ततश्च
For Private And Personal Use Only