________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
भट्टाकलंकप्रणीतं वा द्रव्यव्यातीरक्तः, सामान्यं विशेषशून्यं, विशेषो वा सामान्यशून्यः प्रमाणपदवीमधिरोहति तथाऽप्रतीतेः । यतः कालादिकमेकांतरूपं स्यात् । तत्र कालस्त्रिधा अतीतानागतवर्तमानभेदात् । क्रियानिर्वर्तकं कारकं । तच्च षोढा । कर्तृकर्मकरणसंप्रदानापादानाधिकरणभेदात् । शब्दप्रवृत्तिनिमित्तमर्थधर्मो लिंग तच्च त्रिधा स्त्रीपुंन्नपुंसकभेदात् । त्रिधा संख्या एकत्वद्वित्वबहुत्वमेदात् । साधनं क्रियाश्रयः तदपि त्रिधा अन्ययुष्मदस्मदर्थभेदात् । उपग्रहः प्रादिरुपसर्गः अनेकधेति ॥
नन्वेकांतेऽपि कथमेकस्य षट्कारक्योधनकत्वं घटत इत्याशंक्याहएकस्यानेकसामग्रीसन्निपातात्प्रतिक्षणं ॥ षट्कारकी प्रकल्प्येत तथा कालादिभेदतः॥१८॥ - प्रकल्पेत घटेत । का षट्कारकी षण्णां कारकाणां समाहारः षट्कारकी। कस्य एकस्यापि जीवादिवस्तुनः । अपिशब्दस्याध्याहारात् । कथं प्रतिक्षणं क्षणः समयः क्षणं क्षणं प्रति प्रतिक्षणं । कस्मात् अनेकसामग्रसिन्निपातात् अनेका बहिरंगांतरंगा सामग्री कारणकलापः तस्याः सन्निपातः सन्निधिस्तस्मात् । तथाहि यदैव चक्रादिसन्निधानाद्धटस्य कर्ता देवदत्तस्तदैव स्वप्रेक्षकजमसन्निधानात् स
For Private And Personal Use Only