________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
अनुमानवत् यथाऽनुमानमस्पष्टमपि विसंवादाभावात्प्रमाणमनुमन्यते तथा शाब्दमपि प्रमाणमनुमंतव्यमविसंवादाविशेषादिति ॥
ननु कालकारकलिंगभेदाच्छब्दोऽर्थभेदकृदित्ययुक्तं तद्द्माहकप्रमाणाभावादित्याशंकां निरासयन्नाह - कालादिलक्षणं न्यक्षेणान्यत्रेक्ष्यं परीक्षितं ॥ द्रव्यपर्यायसामान्यविशेषात्मार्थनिष्ठितम् ||१७||
ईक्ष्यमालोकनीयं । किं कालादिलक्षणं काल आदिर्येषां कारकलिंगसंख्यासाधनोपग्रहादीनां ते कालादयः तेषां लक्षणमसाधारणं स्वरूपं । किंविशिष्टं परीक्षितं विचारितं स्वामिसमंतभद्राद्यैः सूरिभिः । कथं न्यक्षेण विस्तरेण । क अन्यत्र तत्त्वार्थमहाभाष्यादौ । किंविशिष्टं द्रव्येत्यादि । द्रव्यं पूर्वापरपरिणामव्यापकमूर्ध्वता सामान्यं पर्यायाः एकस्मिन् द्रव्ये क्रमभाविनः परिणामाः । सामान्यं सदृशपरिणामलक्षणं तिर्यक्सामान्यं । विशेषोऽर्थांतरगतो व्यतिरेकः । द्रव्यं च पर्यायाश्च सामान्यं च विशेषश्च द्रव्यपर्यायसामान्यविशेषाः । ते आत्मा स्वभावो यस्यासौ तथोक्तः । स चासावर्थश्च तस्मिन्निष्ठितं नियतं तदात्मकमिति यावत् । एवंविधस्यैव अर्थक्रियासंभवान्निरपेक्षकांते तद्विरोधात् । न हि केवलं द्रव्यं पर्यायरहितं, पर्यायो
For Private And Personal Use Only
६७