SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ भट्टाकलंकप्रणीतं न्नर्थे दृष्टांतमाह- दूरेत्यादि । दूरश्वासावासनश्च दूरासन्नस्तस्मिन्नर्थे पादपादौ । अक्षबुद्धिवत् यथा प्रत्यक्षज्ञानानां स्पष्टास्पष्टप्रतिभासभेदात् प्रामाण्यं तथा स्मृतेरपीत्यर्थः ॥ ननु शब्दार्थयोः संबंधाभावात्कथं शब्दस्य प्रामाण्यं यतस्तद्विषये शब्दादयो नयाः सम्यंच इति तद्विप्रतिपत्तिनिराकरणार्थमाहअक्षशब्दार्थविज्ञानमविसंवादतः समं । अस्पष्टं शब्दविज्ञानं प्रमाणमनुमानवत् १६ समं समानं प्रमाणं भवति । किं अक्षशब्दार्थविज्ञानं । अक्षमिंद्रियं । शब्दो वर्णपदवाक्यात्मको ध्वनिः । ताभ्यां जनितमर्थस्य सामान्यविशेषात्मकवस्तुनो विशिष्टं संशयादिविकलं ज्ञानमवबोधनं । कुतः अविसंवादतः अर्थक्रियायामव्यभिचारात् । यथाऽक्षजनितमर्थज्ञानमविसंवादात्प्रमाणं तथा शब्दजनितमपीत्यर्थः । न ह्यनाप्तवचनजनितज्ञानस्यार्थक्रियाविसंवादादेवं आप्तवचनजनितज्ञानस्याप्रामाण्यं शक्यमक्षज्ञाने अपि क्वचिद्विसंवादात् । सर्वत्राप्रामाण्यशंकाप्रसंगात् । नन्वक्षज्ञानं प्रमाणं स्पष्टत्वात् न शाब्दमस्पष्टत्वादित्याशंक्याहअस्पष्टमिति । अस्पष्टमविशदमपि शब्दजनितं ज्ञानं प्रमाणमभ्युपगंतव्यमविसंवादादेव । न हि स्पाष्ट्यमस्पाष्ट्यं वा प्रामाण्येतरनिबंधनं तयोः संवादेतरनिबंधनत्वात् । किंव For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy