SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ६५ पर्यायार्थकाः । ते च परस्परापेक्षा एव व्यवहाराय चेष्टते न तन्निरपेक्षः । अतो व्यवहारोपलब्धौ च कुतस्त्यो विरोध इति । नैगमसंग्रहव्यवहार जुसूलाश्चत्वारोऽर्थनयाः । शब्दसमभिरूढत्थंभूतास्त्रयः शब्दनयाः शब्दाश्रयेण प्रवृत्तेः ॥ ननु शब्दार्थयोः संकेतग्रहणाभावात्कथं शब्दभेदादर्थभेदः स्यात् । प्रत्यक्षेण तद्ग्रहणेऽपि व्यवहारानुपयोगात् । गृहीतसंकेतयोस्तदैव नष्टत्वात् । स्मृतेश्च तदविषयत्वात्तयोरतीतत्वादिति सौगतविप्रतिपत्तिं निराकुर्वन्नाह- अक्षबुद्धिरतीतार्थं वेत्ति चेन्न कुतः स्मृतिः ॥ प्रतिभासभिदैकार्थे दूरासन्नाक्षबुद्धिवत् ॥१५॥ अक्षैर्जनिता बुद्धिर्ज्ञानं अतीतार्थं स्वकारणभूतं शब्दं वाच्यं च । चेद्यदि । वेत्ति जानाति सौगतमते हि विषयस्य ज्ञानकारणत्वात् । कारणं च कार्यक्षणात्पूर्वक्षणवर्ति इत्युच्यते । तदा कुतः कारणात्स्मृतिरप्यतीतार्थं न वेत्ति, अपि तु वेत्त्येवेत्यर्थः । नन्वेवं स्मृतेः कथं प्रामाण्यं गृहीतमाहित्वादित्याशंक्याह - प्रतीत्यादि । एकोऽभिन्नोऽतीतत्वाविशेषात्साधारणोऽर्थो विषयः शब्दार्थलक्षणस्तस्मिन्नपि स्मृतिः प्रमाणमिति शेषः । कुतः प्रतिभासमिदा प्रतिभासस्यातीताकारपरामर्शस्य भिद्भेदस्तया । प्रत्यक्षेण हीदमिति यदनुभूयते तदेव कालांतरे पुनस्तदित्यतीताकारतया स्मृत्या विषयीक्रियते इति । अस्मि For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy