________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४
भट्टाकलंक प्रणीतं
3
एकत्वादिधर्मभेदादेव तद्वचनं भेदोपपत्तेरन्यथाऽतिप्रसंगादेव । साधनभेदात् देवदत्तः पचति त्वं पचसि, अहं पचामीति । न खलु अन्यार्थत्वाद्यभावे प्रथमपुरुषादिप्रयोगो दृष्टोऽतिप्रसंगादेव । उपग्रहभेदादप्यर्थभेदो यथा तिष्ठति वितिष्ठते अवतिष्ठते इति व्यवाद्युपसर्गाणामितरेतरभेदादर्थभेदकत्वादन्यथा प्रतिष्ठते इत्यादावपि तदर्थप्रसंगात् । अतः कारिकोत्तरार्धं व्याख्यायते । तु पुनरभिरूढो नाम नयः । पर्यायैः पर्यायशब्दैः । अर्थभेदकृत् यथा इंदनादिंद्रः शकनात् शक्रः पूर्वारणात्पुरंदरः इति । न हींदनादिधर्मभेदाभावे इंद्रादिशब्दः प्रयोक्तुं शक्यः । अन्यथाऽतिप्रसंगात् । अभि स्वार्थाभिमुख्येन रूढः प्रसिद्धोऽभिरूढः इति निरुक्तेः । पुनरित्थंभूतो नाम नयः । क्रियाश्रयो विवक्षितक्रियाप्रधानः सन्नर्थभेदकृत् । यथा यदैवेंदति तदैवेंद्रः नाभिषेचको न पूजक इति । अन्यथाऽपि तद्भावे क्रियाशब्दप्रयोगनियमो न स्यात् । ततोऽर्थभेदाभावेऽपि कालादिभेदोऽविरुद्ध इति वैयाकरणैकांतः शब्दनयाद्याभासः स्यात् नन्वेवं लोकसमयविरोध इति चेद्विरुध्यतां तत्त्वमीमांसायास्तदिच्छानुवृत्त्यभावात् । न हि भेषजमातुरेच्छानुवर्ति । कथं तर्हि तद्विरोधध्वंस इति चेत्स्यात्कारबलादिति ब्रूमः । सर्वत्र प्रतिपक्षाकांक्षालक्षणस्य तदर्थस्य संभवात् । नैगमादयो हि नयास्त्रयो द्रव्यार्थकाः । ऋजुसूत्रादयश्चत्वारः
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only