________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. संविद्यपि तदंशभेदो वसन्नपि नोपलक्ष्यत इति । अथवा स्यात्कथंचिद्रव्याविनाभाविपर्याय ऋजुसूत्रस्य प्रधानं । सर्वथा द्रव्यनिरपेक्षस्य पर्यायस्यावस्तुत्वात् । निरन्वयस्य क्षणिकैकांत ऋजुसूत्राभास इति व्याख्येयं ।।
अधुना शब्दसमभिरूढेत्थंभूताँस्त्रीनपि नयान्निरूपयति-- कालकारकलिंगानां भेदाच्छब्दार्थभेदकृत् ॥
आभिरूढस्तु पर्यायरित्थंभूतः क्रियाश्रयः॥ १४॥ ___ शब्दो नाम नयः स्यात् । किंविशिष्टः अर्थभेदकृत् अर्थस्य प्रमेयस्य भेदं नानात्वं करोत्यभिप्रेतीत्यर्थभेदकृत् । कस्माद्भेदाद्विशेषात् । केषां कालकारकलिंगानां कालश्च कारकं च लिंगं च कालकारकलिंगानि तेषामुपलक्षणमेतत् तेन संख्यासाधनोपग्रहादपीत्यर्थः । तत्र कालभेदात्तावदभूद्भवति भविष्यति जीवः । न खलु सत्ताभेदं विना भूदादिप्रयोगो युक्तोऽअप्रसंगात् । कारकभेदात्पश्यति देवदत्तः, दृश्यते देवदत्तेन देवदत्तं गोपयति, देवदत्तन दीयते देवदत्ताय, देवदत्ताल्लभते, देवदत्ते पौरुषमिति । न हि स्वातंत्र्यादिधर्मभेदाभेदे कादिकारकप्रयोगो युक्तः अतिप्रसंगात् । एवं लिंगभेदात् दाराः कलत्रं भार्येति पुंस्त्वादिधर्मभेदेऽपि तत्प्रयोगे सर्वत्र तन्नियमाभावप्रसंगात्। संख्याभेदात् जलमापः आम्रवनं चैत्रमैत्रौ कुलमिति ।
For Private And Personal Use Only