SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ भट्टाकलंकप्रणीतं योऽसौ सहभावी क्रमभावी भवति । एवं परापरसंग्रहव्यवहारपरंपरा वर्तते यावदृजुसूत्रविषय इति ॥ इदानीं ऋजुसूत्रनयं निरूपयाति - ऋजुसूत्रस्य पर्यायः प्रधानं चित्रसंविदः ॥ चेतनाणुसमूहत्वात्स्याद्भेदानुपलक्षणं ॥ १३ ॥ । ऋजु प्रगुणं वर्तमानपर्यायलक्षणं सूत्रयति निरूपयतीति ऋजुसूत्रस्य प्रधानं विषयः स्याद्भवेत् । कः पर्यायः वर्तमानविवर्तः । अतीतस्य विनष्टत्वेन भविष्यतश्चासिद्धत्वेन व्यवहारानुपयोगात् । व्यवहाराविसंवादी नय इति वचनात् । ननु चित्रज्ञानमेकमनेकाकारं व्यवहारोपयोगि स्यादिति चेदाह - चितेत्यादि । चित्रा नीलपीतादिनानारूपा संवित् ज्ञानं तस्याः । चेतनाणुसमूहत्वात् चेतना ज्ञानं तस्याणवः अंशाः अविभागप्रतिच्छेदास्तेषां समूहः समुदायाः तत्त्वान्न चित्रसंविदृजुसूत्रनयस्य विषयः । न खलु समुदायः प्रतिनियतव्यवहारोपयोगीति । नन्वेवं तत्र भेदः किमिति नोपलक्ष्यते इति चेदाह - भेदानुपलक्षणमिति । सदृशौ परौ परोत्पत्तिविप्रलंभादित्यध्याहारः । ततो भेदस्य नानात्वस्यानुपलक्षणमदर्शनं सदृशापरापरोत्पत्त्या विप्रलब्धबुद्धिः स्यादिति व्याख्यायते । अयमर्थः यथा अयोगोलकादौ पर्यायभेदो विद्यमानोऽपि विप्रलब्धबुद्धिना न निश्चीयते तथा चित्र । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy