________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लंघीयस्त्रयम्. कवादोऽद्वैतवादो वा तयोः संकरप्रसंगादित्यर्थः । ततः कथंचियवहारोऽपि वास्तवोंऽगीकर्तव्यः ॥
सांप्रतं तस्य सुनयत्वं प्रतिपादयतिव्यवहारोऽविसंवादी नयः स्यादुर्नयोऽन्यथा । बहिरर्थोऽस्ति विज्ञप्तिमात्रशून्यमितीदृशः ॥१२॥
स्याद्भवेत् । कः नयः संग्रहादिः । किंविशिष्टः बहिरर्थोऽस्तीतीदृशः । इतिशब्दात्प्रमाणमस्ति साध्यसाधनभावो ऽस्ति इत्यादि । कथंभूतः सन् व्यवहाराविसंवादी हेतुफलभावादिव्यवस्था व्यवहारः तस्याविसंवादोऽव्यभिचारः सोऽस्यास्तीति तथोक्तः । व्यवहारस्य हि सुनयत्वे तदाश्रया हेतुफलभावादिसिद्धिः स्यात् । अन्यथा व्यवहारविसंवादी दुर्नयः स्यात् । कीदृशः विज्ञप्तिमात्रं विज्ञप्तिविज्ञानमेव तत्त्वं नान्यत् । शून्यं समस्तज्ञानज्ञेयोपप्लव एव तत्त्वमितीदृशः । इतिशब्दः प्रकारवाची सन्मात्रमेव तत्त्वं विभ्रम एव तत्त्वं इत्यादिप्रकारान् सूचयति । संग्रहेण हि सर्वं सत्तदभेदादिति सर्वैक्यमभिप्रैति । व्यवहारस्तु तदेव विधिपूर्वकमवहरति भिनत्ति । यथा यत्सत्त
व्यं पर्यायो वेति । पुनरपरसंग्रहो जीवादीन् द्रव्यमिति संगृह्णाति । ज्ञानं रागादींश्च पर्याय इति संगृह्णाति । अपरव्यवहारः पुनद्रव्यं तज्जीवोऽजीवो वेति । यश्च पर्या
For Private And Personal Use Only