SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लंघीयस्त्रयम्. कवादोऽद्वैतवादो वा तयोः संकरप्रसंगादित्यर्थः । ततः कथंचियवहारोऽपि वास्तवोंऽगीकर्तव्यः ॥ सांप्रतं तस्य सुनयत्वं प्रतिपादयतिव्यवहारोऽविसंवादी नयः स्यादुर्नयोऽन्यथा । बहिरर्थोऽस्ति विज्ञप्तिमात्रशून्यमितीदृशः ॥१२॥ स्याद्भवेत् । कः नयः संग्रहादिः । किंविशिष्टः बहिरर्थोऽस्तीतीदृशः । इतिशब्दात्प्रमाणमस्ति साध्यसाधनभावो ऽस्ति इत्यादि । कथंभूतः सन् व्यवहाराविसंवादी हेतुफलभावादिव्यवस्था व्यवहारः तस्याविसंवादोऽव्यभिचारः सोऽस्यास्तीति तथोक्तः । व्यवहारस्य हि सुनयत्वे तदाश्रया हेतुफलभावादिसिद्धिः स्यात् । अन्यथा व्यवहारविसंवादी दुर्नयः स्यात् । कीदृशः विज्ञप्तिमात्रं विज्ञप्तिविज्ञानमेव तत्त्वं नान्यत् । शून्यं समस्तज्ञानज्ञेयोपप्लव एव तत्त्वमितीदृशः । इतिशब्दः प्रकारवाची सन्मात्रमेव तत्त्वं विभ्रम एव तत्त्वं इत्यादिप्रकारान् सूचयति । संग्रहेण हि सर्वं सत्तदभेदादिति सर्वैक्यमभिप्रैति । व्यवहारस्तु तदेव विधिपूर्वकमवहरति भिनत्ति । यथा यत्सत्त व्यं पर्यायो वेति । पुनरपरसंग्रहो जीवादीन् द्रव्यमिति संगृह्णाति । ज्ञानं रागादींश्च पर्याय इति संगृह्णाति । अपरव्यवहारः पुनद्रव्यं तज्जीवोऽजीवो वेति । यश्च पर्या For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy