________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०
भट्टाकलंकप्रणीतं तस्य तावद्भिरंशैभवितव्यं अन्यथा अवयवानामेकत्वप्रसंगात् तत्रापि वृत्तौ तस्य तावदंशांतरकल्पनायामनवस्था स्यात् । सर्वात्मना चेदवयविबहुत्वापत्तेः । अन्यथा वृत्तिविरोधात् । ततः कथंचित्तादात्म्यलक्षणः समवायस्तेषामभ्युपगंतव्यो नान्यथेति स्थितं ॥
ननु ब्रह्मवादभेदवादयोरपि प्रमाणादिव्यवहारसंभवात्कथं संग्रहनैगमाभासत्वमित्याक्षेपं विक्षिपन्नाहप्रामाण्यं व्यवहाराद्धि स न स्यात्तत्त्वतस्तयोः । मिथ्यैकांते विशेषो वा कः स्वपक्षविपक्षयोः ११
प्रमाणं स्वेष्टानिष्टसाधनदूषणनिबंधनं प्रत्यक्षमन्यद्वा सर्वैरभ्युपगंतव्यमन्यथाऽतिप्रसंगात् । तच्च व्यवहारात् विधिपूर्वकमवहरणं विभंजनं भेदकल्पनं व्यवहारस्तस्मात् तमाश्रित्येत्यर्थः । स च तत्त्वतः परमार्थतो न स्यात् । क तयोः संग्रहाभासनैगमाभासयोः। न खलु निरपेक्षे भावैकांते प्रमाणादिभेदव्यवहारोऽस्ति निराकृतत्वात् । भेदैकांते वा प्रमाणफलव्यवहारोऽस्ति संबंधाभावात् । औपचारिकः प्रमाणफलव्यवहारस्तत्रास्तीति चेदत्राह-- मिथ्येत्यादि । मिथ्यकांते प्रमाणफलव्यवहारस्यावास्तवैकांते अंगीक्रियमाणे । विशेषोऽभेदोऽपि कः ? न कोऽपीत्यर्थः । कयोः स्वपक्षविपक्षयोः स्वपक्षो ब्रह्मवादो भेदवादो वा । विपक्षः क्षणि
For Private And Personal Use Only