________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
नैगमाभास इप्यते तस्य प्रमाणबाधितत्वात् । न खलु द्रव्याद्गुणादयोऽत्यंतभिन्नाः प्रतीयते । अशक्यविवेचनत्वेन कथंचितादात्म्यप्रतीतेः । संबंधाभावाच्च ।।
ननु समवायसंबंधोऽस्त्येव गुणगुण्यादीनामिति यौगमतं निराकुर्वन्नाहस्वतोऽर्थाः संतु सत्तावत्सत्तया किं सदात्मनां ॥ असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसंगतः ॥१०॥
योगमते भावानां स्वतः सदात्मनां सत्तासमवायोऽसदात्मनां वेति विकल्पद्वयं मनसिकृत्य प्रथमपक्षे दूषणमाहस्वतः स्वरूपेणार्थाः पदार्थाः संतु । किंवत् सत्तावत् यथा सत्तांतराद्विनाऽपि सत्ता परसामान्यं स्वत एवास्ति तथा द्रव्यादीन्यपि स्वत एव संतु विद्युतां । तथाच स्वतः सदात्मनां सत्तया किं साध्यं न किमपीत्यर्थः । विनाऽपि तया तेषां सत्त्वात् । द्वितीयविकल्पं दूषयति । सर्वथाऽ सदात्मसु द्रव्यादिषु परा सत्ता न स्यात् न वर्तेत अतिप्रसंगात् । खरविषाणादावपि सर्वथाऽसति सत्तासमवायप्रसंगात् । एवं द्रव्यत्वादिसमवायोऽप्यनयैव दिशा चिंतनीयः । स्वतो द्रव्यस्य द्रव्यत्वसमवायानर्थक्यात् । अद्रव्यस्य तु तत्समवायेऽतिप्रसंगादिविकल्पोपपत्तेः । किंच अवयव्यवयवेप्वेकदेशेन सर्वात्मना वा वर्तेत ? आद्यपक्षे
For Private And Personal Use Only