SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं संग्रहाभासो भवति । कः ब्रह्मवादः सत्ताद्वैतं भावैकांत इत्यर्थः । कुतः स्वार्थभेदनिराकृतेः स्वस्य ब्रह्मवादस्यार्थी विषयः सन्मानं तस्य भेदा जीवादिविशेषास्तेषां निराकृतेः प्रतिषेधात् । न खलु सर्वथा सत्त्वे भेदानामवकाशोऽस्ति । भेदरहितं च तत्कथं सामान्य नाम निराश्रयत्वात् अर्थक्रियाविरहाच्च । नैकं स्वस्मात्प्रजायत इति न्यायात् । न हि तदद्वैते क्रियाकारकभेदोऽस्ति यतोऽर्थक्रिया संभवेत् ॥ अथेदानी नैगमनयं तदाभासं च निरूपयति--- अन्योन्यगुणभूतैकभेदाभेदप्ररूपणात् ॥ नैगमोऽर्थांतरत्वोक्तौ नैगमाभास इष्यते ॥९॥ इष्यते मन्यते स्याद्वादिभिः । कः नैगमः निगमो मुख्यगौणकल्पना तत्र भवो नयो नैगम इति । कुतः अन्योन्येत्यादिगुणभावोऽप्रधानभूतः एकश्च प्रधानभूतः अन्योन्यं परस्परं गुणभूतैको अन्योन्यगुणभूतकौ तौ च तौ भेदाभेदौ च तयोः प्ररूपणात् ग्रहणात् । तथाहि गुणगुणिनामवयवावयविनां क्रियाकारकाणां जातितद्वतां च कथंचिद्भेदं गुणीकृत्याभेदं प्ररूपयति । अभेदं वा गुणीकृत्य भेदं प्ररूपयति । नैगमनयस्यैवंविधत्वात् । प्रमाणे भेदाभेदयोरनेकांतग्रहणात् । ननु गुणगुण्यादीनामत्यंतभेद एवेति चेदत्राह- अर्थेत्यादि । अर्थांतरत्वं गुणगुण्यादीनामत्यंतभेदः तस्योक्तौ प्ररूपणायां For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy