________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. र्तिनमुपादानत्वेन संतानांतरवर्तिनश्च निमित्तत्वेन जनयेदित्यर्थः। यथा वा एकं ज्ञानं भिन्नदेशार्थान् विप्रकृष्टनीलाद्याकारान् व्यानोति न विरुध्यते तथा एकमभिन्नद्रव्यं । क्रमात् कालमेदेन । भिन्नकालार्थान् भिन्नः पूर्वापरीभूतः कालो येषां ते च तेऽर्थाश्च कार्याणि तान् । कुर्यात् पूर्वोत्तराकारपरिहारावाप्तिस्थितिरूपेण परिणमत इत्यर्थः । तानेव व्यामोति वा तादात्म्यमनुभवति वा न विरुध्यते । एकस्यैव नानादेशकार्यकारित्वमविरुद्धं । नानाकालकार्यकारित्वं तु विरुद्धमित्यपि खदर्शनानुरागमात्रं । न्यायस्य समानत्वात् । ततः सिद्धमेकानेकाद्यनेकांतात्मकं जीवादि वस्त्वन्यथाऽर्थक्रियाविरोधादिति ॥ __ एवं सत्सामान्यरूपं परद्रव्यमुत्पादव्ययध्रौव्ययुक्तमपरद्रव्यं च प्रतिपाद्य तत्र परद्रव्यविषयं परसंग्रहं तदाभासं च दर्शयन्नाह - संग्रहः सर्वभेदैक्यमभिप्रैति सदात्मना ॥ ब्रह्मवादस्तदाभासः स्वार्थभेदनिराकृतेः ॥८॥
अभिप्रेति विषयीकरोति । कः संग्रहः संग्रहनयः । किं सर्वभेदैक्यं सर्वे च ते द्रव्यादयो भेदा विशेषास्तेषामैक्यमभेदं। केन सदात्मना सर्वं सदिति सद्रूपेण सत्सामान्यात्तु सर्वैक्यमिति प्रवचनात् । न सर्वथा तथाऽप्रतीतेः । नन्वेवं ब्रह्मवाद एव समर्थितः स्यादिति चेदत्राह- ब्रह्मेत्यादि । तदाभासः
For Private And Personal Use Only