________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भट्टाकलंकप्रणीतं
कार्यस्योत्तरपरिणामस्योत्पत्तिः स्वरूपलाभः । कया स्वयंकारणसत्तया स्वयंकारणं विवक्षितकार्यजनकं द्रव्यस्वरूपमुपादानं तस्य सत्तया भावेन । तर्हि युज्येत युक्तं स्यात् । किं अर्थक्रियासंभवसाधनं अर्थस्य अभिमतप्रयोजनस्य क्रिया निष्पत्तिस्तत्संभवसाधनं नित्यक्रमयोगपद्यविरहादित्याधनुमानं । क अर्थे । किंविशिष्टे क्षाणके निरन्वयक्षणनश्वरे । इदमतिपत्तिवचनं । न च सा विरुद्धा कार्यकाले सत एव कारणत्वात् । अन्यथा कार्यस्याकस्मिकत्वप्रसंगात् । क्षणिकैकांते कार्यकारणभावविरोधाच्च । न हि यदभावे यदुत्पद्यते यद्भावे यन्नोत्पद्यते तयोः कार्यकारणभावोऽस्ति । अन्यथाऽतिप्रसंगात् । ततः कथंचित्सत एव कारणत्वं कार्यत्वं वाऽनुमंतव्यमिति द्रव्यपर्यायात्मकमेव वस्तु । तत्रैवार्थक्रियासंभवात् ।
ननु कथमेकस्यानेककार्यकारित्वमनेकधर्मव्यापित्वं च विरोधादित्याशंकां निराकुर्वन्नाहयथैक भिन्नदेशार्थान्कुर्यायाप्नोति वा सकृत्॥ तथैकं भिन्नकालार्थान्कुर्याद्व्याप्नोति वा क्रमात् ७ __ यथा येनाविरोधप्रकारेण एकं सौगताभिमतं क्षणिकस्वलक्षणं । सकृदेकक्षणे । भिन्नदेशार्थान् भिन्नो विप्रकृष्टो देशो येषां ते भिन्नदेशास्ते च तेऽर्थाश्च कार्याणि तान् स्वसंतानव
For Private And Personal Use Only