________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
५५
प्रसंगात् । तल्लक्षणत्वाद्द्रव्यस्येति । भूयोऽपि कथंभूतैः दृश्यादृश्यैः दृश्याः स्थूला व्यंजनपर्यायाः अदृश्याः सूक्ष्माः केवलगमगम्या अर्थपर्यायाः दृश्याश्च अदृश्याश्च दृश्यादृश्यास्तैरिति । अस्मिन्नर्थे परप्रसिद्धं दृष्टांतमाह- सदसत्स्वार्थनिर्मासैः । अत्र यथा ज्ञानमित्येतावानध्याहारः । यथा एकं ज्ञानं विभाति । कैः सह संतश्चासंतश्च सदसंतः । स्वं चार्थश्च स्वार्थौ तयोर्निर्भासा नीलाद्याकारास्तथोक्ताः । सदसंतश्च ते स्वार्थनिर्मासाश्च सदसत्स्वार्थनिर्भासास्तैरिति । अयमर्थः यथा सद्भिर्ज्ञानगताकारैरसद्भिरर्थाकारैर्नीलादिभिः सहैकं ज्ञानं विभाति तव न विरुध्यते । तथा अर्थव्यंजनपर्यायैः सहक्रमविवर्तिभिः गुणपर्यायैः सहैकं द्रव्यमपि विभाति न विरुध्यते इति । विरोधस्यानुपलंभसाध्यत्वात् । उपलभ्यंते च द्रव्यं भेदाश्च । ततः सिद्धं भेदाभेदात्मकं जीवादि वस्तु । तथा ज्ञेयत्वात् अर्थक्रियाकारित्वाच्च । न खलु सर्वथानित्यं क्षणिकं वाऽर्थक्रियां कुर्वत्प्रतीयते । यतस्तत्परमार्थसन्मन्येत ॥
ननु कार्यकारणयोर्मिन्नकालत्वात् क्षणिके एवार्थक्रियासंभवो न नित्ये इति शाक्यवाक्यं शोधयन्नाह - कार्योत्पत्तिर्विरुद्धा चेत्स्वयंकारणसत्तया ॥ युज्येत क्षणिकेऽर्थेऽर्थक्रियासंभव साधनम् ॥६॥ चेद्यदि विरुद्धा विप्रतिषिद्धा स्यात् । का कार्योत्पत्तिः
For Private And Personal Use Only