________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४
भट्टाकलंक प्रणीतं
सदात्मना सद्रूपेण न खलु सद्रूपेण भेदः पदार्थेषु प्रत्यक्षतो ज्ञायते येन प्रत्यक्षं द्रव्यं न (?) शंसेत् । कस्सात् भेदात् भेदमाश्रित्य । किंविशिष्टात् सामान्यलक्षणात् सामान्यमन्वयो लक्षणं लिंगं यस्यासौ सामान्यलक्षणस्तस्मात् । न हि भेदनिरपेक्षममेदं प्रत्यक्षमन्यद्वा प्रमाणं साधयति । तस्यानुपलब्धेः । ततः प्रत्यक्षमपि द्रव्यसिद्धिनिबंधनमेवेति कुतः संग्रहनयो मिथ्या स्यात् ॥
एवं सत्सामान्यलक्षणं शुद्धद्रव्यं समर्थ्य ऊर्ध्वतासामान्यमशुद्धद्रव्यं समर्थयते
सदसत्स्वार्थनिर्भासैः सहक्रमविवर्तिभिः ॥ दृश्यादृश्यैर्विभात्येकं भेदैः स्वयमभेदकैः ॥ ५ ॥
विभाति विशेषेण प्रत्यक्षादिबुद्धौ प्रतिभासते । किं एकं द्रव्यरूपेणाभिन्नं जीवादि वस्तु । कैः सह भेदैः पर्यायैः सह । कथंभूतैः सहक्रमविवर्तिभिः सह युगपत् क्रमेण च कालभेदेन विवर्तते विपरिणमंते इत्येवंशीलास्तैः गुणपर्यायैरित्यर्थः । गुणपर्ययवद्द्रव्यमिति वचनात् । सहवर्तिनस्तु पर्याया रागादय इति । पुनश्च किंभूतः स्वयमभेदकैः स्वयं स्वरूपेण गुणपर्यायात्मना न विद्यते भेदो गुणः पर्यायो वा येषां ते तथोक्तास्तैः । द्रव्याश्रया निर्गुणा गुणा इति वचनात् । गुणपर्याययोरपि गुणपर्यायवत्त्वेन द्रव्यत्व
For Private And Personal Use Only