SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ५३ किं शुद्धं द्रव्यं सत्सामान्यं तस्यान्योपाधिरहितत्वेन शुद्धिसंभवात् । तद्विषयो हि नयः संग्रहः सजात्यविरोधेन पर्यायानाक्रांतभेदानकध्यमुपनीय समस्तग्रहणं संग्रह इति निर्वचनात् । कुतः तदभेदतः तस्य सरसामान्यलक्षणस्य शुद्धद्रव्यस्याभेदात् । सर्वेषु जीवाजीवेष्वव्यतिरेकात् । ननु प्रागभावादेः सत्त्वव्यतिरेकात्कथं तदभेद इत्याशंक्याह-भेदानां जीवादीनां सद्विशेषाणां मध्ये एकोऽपि भेदो जीवस्तत्पर्यायोऽन्यो वाऽसदात्माऽसत्स्वरूपो नास्ति न विद्यते । विरोधतः । यद्यसदात्मा कथमस्ति । यद्यस्ति कथमसदात्मेति स्ववचनविरोधादस्य प्रसिद्धेः । ततः प्रागभावादिरन्यो वा कथंचित्सदात्मक एवाभ्युपगंतव्य : प्रतीतिबलात् ॥ ननु प्रत्यक्षतो भेदस्य सिद्धरभेदनयः संग्रहो मिथ्या प्रत्यक्षबाधितत्वादिति सौगतविप्रतिपत्तिं निराकुर्वन्नाहप्रत्यक्षं बहिरंतश्च भेदाज्ञानं सदात्मना ॥ द्रव्यं स्वलक्षणं शंसेझेदात्सामान्यलक्षणात् ४ शंसेत् स्तूयात् कथयेदित्यर्थः । किं प्रत्यक्षं विशदमिंद्रियानिंद्रियज्ञानं । किंविशिष्टं भेदाज्ञानं भेदान् परपरिकल्पितान् निरंशक्षणान्न जानाति न गृहातीति भेदाज्ञानं । किं शंसेत् द्रव्यं शुद्धमशुद्धं वा स्वलक्षणं वस्तुभूतं न कल्पिसमित्यर्थः । व बहिरचेतने घटादौ । अंतश्चेतने । केन For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy