SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टाकलंकप्रणीतं जीवाजीवप्रभेदा यदंतीनास्तदस्ति सत् । एकं यथा स्वनिर्भासि ज्ञानं जीवः स्वपर्ययैः २ अस्ति विद्यते प्रतीयते । तत्कि सत् सत्तासामान्यं । किंविशिष्टं यदित्यादि यस्मिन्नंतींना अंतर्भूताः । के जीवाजीवप्रभेदाः । जीवश्चेतनालक्षणः । अजीवः पुनस्तद्विपर्ययः पुद्गलादिः । प्रभेदाश्च त्रसस्थावराद्यवांतरविशेषाः । जीवाजीवौ च प्रभेदाश्च ते तथोक्ताः । न खलु द्रव्यं पर्यायो वा सत्त्वव्यतिरिक्तमस्तीति किंचिद्व्यवहर्तुं शक्यं स्ववचनविरोधादतिप्रसंगाच्च । नन्वेकस्य कथमनेकजीवादिभेदव्यापकत्वमिति चेदत्राह-- एकमित्यादि । यथा एकं ज्ञानं चित्रपटादिविषयं स्वनिर्भासि स्वे आत्मीया ज्ञानात्मानो निर्भासा नीलाद्याकारा विद्यतेऽस्येति स्वनि सि । यथा चैको जीव आत्मा स्वपर्ययैः स्वे चिद्रूपाः पर्ययाः रागादयः परिणामास्तैराक्रांतः प्रतीतिपदारूढो न विरुध्यते तथा सत्त्वमपि जीवाद्यनेकभेदाक्रांतं न विरुध्यत इत्यर्थः ।। तस्य सत्सामान्यस्य नयं निरूपयतिशुद्ध द्रव्यमभिप्रैति संग्रहस्तदभेदतः॥ भेदानां नासदात्मैकोऽप्यस्ति भेदो विरोधतः ३ अभिप्रेति विषयीकरोति । कः संग्रहः संग्रहनयः । For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy