SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. किंविशिष्टास्ते ये भेदाभेदाभिसंधयः भेदो विशेषः पर्यायो व्यतिरेकश्च अभेदः सामान्यमेकत्वं सादृश्यं च भेदश्चाभेदश्च भेदाभेदौ तयोर्भेदाभेदयोरभिसंधयोऽभिप्रायाः श्रुतज्ञानिनो विकल्पा इत्यर्थः । कस्मिन् ज्ञेये प्रमेये जीवादौ । किंविशिष्टे भेदाभेदात्मके भेदाभेदावात्मानौ स्वभावौ यस्य तत्तथोक्तं तस्मिन् । न खल्वेकांततो भेदात्मकमभेदात्मकं वा प्रमेयमुपलब्धं । अनुवृत्तव्यावृत्तप्रत्ययबलादुभयात्मकस्यैवोपलब्धेः। प्रमाणस्यानेकांतविषयत्वात् । अनेकांतः प्रमाणादिति वचनात् । न चोभयात्मकत्वेनार्पितं व्यवहारयोग्यं वस्तु । ततस्तदुपयोगिन एकांतस्य नयाधीनत्वान्नया उच्यते। तदेकांतोऽर्पितान्नयादिति राद्धांतात् । ते च परस्परापेक्षा एव व्यवहाराय कल्पते । अन्यथा तद्विलोपहेतुत्वेन दुर्नयत्वात् । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृदिति स्वामिभिरभिधानात् । ते च द्विविधाः द्रव्यार्थिकाः पर्यायार्थिकाश्चेति । द्रव्यं सामान्यमभेदोऽन्वय उत्सर्गोऽर्थों विषयो येषां ते द्रव्यार्थिकाः । पर्यायो विशेषो भेदो व्यतिरेकोऽपवादोऽर्थो विषयो येषां ते पर्यायार्थिका इति निरुक्तेः। तत्र द्रव्यं द्विधा शुद्धद्रव्यमशुद्धद्रव्यं चेति । सत्सामान्यं हि शुद्धद्रव्यं । जीवतत्त्वादि पुनरशुद्धं द्रव्यमिति ॥ ___ ननु देशकालाकारभेदादत्यंतभिन्ना एव भावाः परमार्थसंतो न सत्सामान्यमिति बौद्धविप्रतिपत्तिं निराकुर्वन्नाह-- For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy