________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५०
भट्टाकलंकप्रणीतं
अतिप्रसंगात् । करशाखा शिखराधिकरण करेणुशतास्तित्वादिप्रतिपादनवचनानां प्रतारणत्वादप्रामाण्यसिद्धेः । रागद्वेषमोहाक्रांतपुरुषवचनस्यागमाभासत्वात् । ततः सिद्धं श्रुतं प्रमाणं द्वीपांतराद्यर्थेषु विसंवादाभावादिति साधूक्तं ||
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाणाभं कथंचिद्यदकलंकप्रभजितं ॥ गावः सौर्यो विवृण्वंति तदेतत्स्यान्मताश्रयात् ॥१॥ इत्यमय चंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसंज्ञायां प्रमाणाभासपरिच्छेदश्चतुर्थः ॥
इति भट्टा कलंकशशांकस्मृते लघीयस्त्रये प्रमाणप्रदेशः प्रथमः
नमो नमन्मरुमौलिमिलत्पदनखांशवे ॥ स्वांतध्वांतप्रतिध्वंसप्रशंसाय जिनांशवे ॥ १ ॥
अथेदानीं प्रमाणं तदाभासं परीक्ष्य नयतदाभासलक्षणपरीक्षार्थमाह
भेदाभेदात्मके ज्ञेये भेदाभेदाभिसंघयः ॥ एतेऽपेक्षानपेक्षाभ्यां लक्ष्यंते नयदुर्नयाः ॥ १ ॥
लक्ष्यंते निश्चीयते । के नयदुर्नयाः नयाश्च दुर्नयाश्च नयाभासाश्च नयदुर्नयाः । काभ्यां अपेक्षानपेक्षाभ्यां अपेक्षा प्रतिपक्षधर्माकांक्षा अनपेक्षा ततोऽन्या सर्वथैकांतः ताभ्यां ।
For Private And Personal Use Only