________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. नन्वस्तु सुगतवचनस्याप्यप्रामाण्यं प्रत्यक्षानुमानयोरेव प्रामाण्यात्पुंसां विचित्राभिप्रायत्त्वेनार्थव्यभिचारादिति दाशबलशंका निरस्यतिपुंसश्चित्राभिसंधेश्चेद्दागर्थव्यभिचारिणी ॥ कार्यं दृष्टं विजातीयाच्छक्यं कारणभेदि किं ८
चेद्यदि । वागाप्तवचनं । अर्थव्यभिचारिणी बाह्यार्थविसंवादिनी स्यात् । कस्मात् चित्राभिसंधेः । चित्रः सत्यासत्यादिनानारूपोऽभिसंधिरभिप्रायो विवक्षा तस्मात् । कस्य पुंसो वक्तुः सरागा अपि वीतरागवच्चेष्टंते इति वचनात् । तर्हि विजातीयादपि कारणात् कार्य दृष्टमविरुद्धं स्यात् । ततस्तत्कारणभेदि कारणं प्रतिनियतं खात्मलाभनिबंधनं भिनत्ति विजातीयाद्विशिनष्टीत्येवंशीलं किं शक्यं स्यान्न स्यादेवेत्यर्थः । तस्य यतः कुतश्चिदुत्पत्तेरविरोधात् । न खत्वनियतकारणजन्यं कार्य कारणभेदं गमयत्यशक्तेः । ततः कार्यस्य कारणव्यभिचारादलिंगत्वमित्यनुमानोच्छेद इति भावः । सत् विवेचितं कार्य कारणं नातिवर्तत इति चेत् सुप्रयुक्ता वागपि यथार्थविवक्षां नातिवर्तते इति कथमर्थव्यभिचारः । ननु विवक्षाधिरूढ एव वागर्थो न बाह्य इति चेन्न । विवक्षायास्तदव्यभिचारात् । वक्तुरिच्छा हि विवक्षा। न च बाह्यार्थनियमं तदिच्छानियमो युज्यते
For Private And Personal Use Only