SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ भट्टाकलंकप्रणीतं निरोधि प्रमेयांतरतिरोधायकं । पुनर्न वीक्षते । किं परं घटादिकं । कथंभूतं वृतमाच्छादितं । केन तमसा । ततः कथमालोको ज्ञानकारणं तदभावेऽपि तदुत्पत्तेरिति । अस्मिन्नथे दृष्टांतमाह- इव यथा कुड्यादिकमीक्षते ईक्षकाः । कुड्यादितिरोहितं पुनर्घटादिकं नेक्षते । तथा तमो वीक्षते तदावृतं तु परं नेक्षते इति । ननु तमोवदालोकावृतमपि घटादिकं मैक्षिषतेति चेत्स्यादेवं यदि प्रकाशस्यावैशद्यं । यस्य हि द्रव्यस्य वैशद्यमस्ति तेनावृतमप्यनावृतप्रख्यमेव स्फटिकाभ्रकाद्यावृतवत् । अत आलोकवत्तदावृतमपि पश्यंति तस्य वैशद्यात् । तमः पुनः पश्यंति तदावृतं न पश्यति तस्यावैशद्यमिति ! तन्न ज्ञानकरणमालोकः प्रमेयत्वात् अर्थवदिति सिद्धमंतरंगकारणं ज्ञानावरणवीर्यांतरायक्षयोपशमः । बहिरंगं पुनरिंद्रियानिद्रियरूपमिति ॥ ___ नन्वर्थादनुत्पन्नत्वे ज्ञानस्य सर्वार्थप्रकाशप्रसंगः स्यादविविशेषादित्याशंक्याह---- मलविद्धमाणिव्यक्तिर्यथाऽनेकप्रकारतः॥ कर्मविद्यात्मविज्ञप्तिस्तथानेकप्रकारतः ॥ ७ ॥ यथा स्यात् । का मलविद्धमणिव्यक्तिः मलैः कालिमरेखादिभिः विद्धः स चासौ मणिश्च पद्मरागादिः तस्य व्यक्तिस्तेजःप्रादुर्भावः । कथं अनेकप्रकारतः अनेके बहवः For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy