________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
भट्टाकलंकप्रणीतं
निरोधि प्रमेयांतरतिरोधायकं । पुनर्न वीक्षते । किं परं घटादिकं । कथंभूतं वृतमाच्छादितं । केन तमसा । ततः कथमालोको ज्ञानकारणं तदभावेऽपि तदुत्पत्तेरिति । अस्मिन्नथे दृष्टांतमाह- इव यथा कुड्यादिकमीक्षते ईक्षकाः । कुड्यादितिरोहितं पुनर्घटादिकं नेक्षते । तथा तमो वीक्षते तदावृतं तु परं नेक्षते इति । ननु तमोवदालोकावृतमपि घटादिकं मैक्षिषतेति चेत्स्यादेवं यदि प्रकाशस्यावैशद्यं । यस्य हि द्रव्यस्य वैशद्यमस्ति तेनावृतमप्यनावृतप्रख्यमेव स्फटिकाभ्रकाद्यावृतवत् । अत आलोकवत्तदावृतमपि पश्यंति तस्य वैशद्यात् । तमः पुनः पश्यंति तदावृतं न पश्यति तस्यावैशद्यमिति ! तन्न ज्ञानकरणमालोकः प्रमेयत्वात् अर्थवदिति सिद्धमंतरंगकारणं ज्ञानावरणवीर्यांतरायक्षयोपशमः । बहिरंगं पुनरिंद्रियानिद्रियरूपमिति ॥ ___ नन्वर्थादनुत्पन्नत्वे ज्ञानस्य सर्वार्थप्रकाशप्रसंगः स्यादविविशेषादित्याशंक्याह---- मलविद्धमाणिव्यक्तिर्यथाऽनेकप्रकारतः॥ कर्मविद्यात्मविज्ञप्तिस्तथानेकप्रकारतः ॥ ७ ॥
यथा स्यात् । का मलविद्धमणिव्यक्तिः मलैः कालिमरेखादिभिः विद्धः स चासौ मणिश्च पद्मरागादिः तस्य व्यक्तिस्तेजःप्रादुर्भावः । कथं अनेकप्रकारतः अनेके बहवः
For Private And Personal Use Only