SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ भट्टाकलंकप्रणीतं परिच्छेद्य प्रवर्तमानो हानादिफले न विसंवाद्यते इति कथं न प्रामाण्यं तेषामिति । नन्वेवं तेषां प्रामाण्यं कथमित्याशंकां निराकरोति- ततो व्यवहाराविसंवादादन्यथा तद्विसंवादप्रकारेण । सदाभासः प्रमाणाभासोऽक्षाध्यादेरिति । न खल्वर्थक्रियाव्यभिचारिणः प्रमाणत्वमतिप्रसंगात् । तत्र प्रत्यक्षाभासाः संशयविपर्यासानध्यवसायादर्शनादयः । अतस्मिँस्तदिति परामर्शः स्मृत्याभासः । अतत्सदृशे तत्सदृशमिदमतस्मिँस्तदेवेद मित्यादि प्रत्यभिज्ञानाभासः । असंबद्धे व्याप्तिग्रहणं तर्काभासः । असिद्धविरुद्धानेकांतिकाकिंचित्करा हेत्वाभासाः । प्रत्यक्षादिबाधितः साध्याभासः । साध्यसाधनोभयविकला दृष्टांताभासाः । “विस्तरः परीक्षामुखालंकारादौ द्रष्टव्यः ॥ अथेदानीं श्रुतज्ञानस्य प्रमाणेतरव्यवस्थां प्रतिपादयतिप्रमाणं श्रुतमर्थेषु सिद्ध द्वीपांतरादिषु ॥ अनाश्वासं न कुर्वीरन् कचित्तद्व्यभिचारतः ॥५॥ व्यवहाराविसंवाद इत्यनुवर्तते । आप्तवचनादिनिबंधनं मतिपूर्वकमर्थज्ञानं श्रुतं तच्च प्रमाणं सिद्धमेव । केन सिद्धमिति चेत् व्यवहाराविसंवादादित्युच्यते । प्रत्यक्षादिवत् । केषु अर्थेषु प्रमेयेषु । कीदृक्षु द्वीपांतरादिषु प्रकृतो जंबूद्वीपः । तस्मादन्ये धातकीखंडादयो द्वीपांतराणि तान्यादिर्येषां कालस्वभावव्यवहितानां ते तथोक्ताः तेषु । देशकालाकारविप्रकृ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy