________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६
भट्टाकलंकप्रणीतं परिच्छेद्य प्रवर्तमानो हानादिफले न विसंवाद्यते इति कथं न प्रामाण्यं तेषामिति । नन्वेवं तेषां प्रामाण्यं कथमित्याशंकां निराकरोति- ततो व्यवहाराविसंवादादन्यथा तद्विसंवादप्रकारेण । सदाभासः प्रमाणाभासोऽक्षाध्यादेरिति । न खल्वर्थक्रियाव्यभिचारिणः प्रमाणत्वमतिप्रसंगात् । तत्र प्रत्यक्षाभासाः संशयविपर्यासानध्यवसायादर्शनादयः । अतस्मिँस्तदिति परामर्शः स्मृत्याभासः । अतत्सदृशे तत्सदृशमिदमतस्मिँस्तदेवेद मित्यादि प्रत्यभिज्ञानाभासः । असंबद्धे व्याप्तिग्रहणं तर्काभासः । असिद्धविरुद्धानेकांतिकाकिंचित्करा हेत्वाभासाः । प्रत्यक्षादिबाधितः साध्याभासः । साध्यसाधनोभयविकला दृष्टांताभासाः । “विस्तरः परीक्षामुखालंकारादौ द्रष्टव्यः ॥
अथेदानीं श्रुतज्ञानस्य प्रमाणेतरव्यवस्थां प्रतिपादयतिप्रमाणं श्रुतमर्थेषु सिद्ध द्वीपांतरादिषु ॥ अनाश्वासं न कुर्वीरन् कचित्तद्व्यभिचारतः ॥५॥
व्यवहाराविसंवाद इत्यनुवर्तते । आप्तवचनादिनिबंधनं मतिपूर्वकमर्थज्ञानं श्रुतं तच्च प्रमाणं सिद्धमेव । केन सिद्धमिति चेत् व्यवहाराविसंवादादित्युच्यते । प्रत्यक्षादिवत् । केषु अर्थेषु प्रमेयेषु । कीदृक्षु द्वीपांतरादिषु प्रकृतो जंबूद्वीपः । तस्मादन्ये धातकीखंडादयो द्वीपांतराणि तान्यादिर्येषां कालस्वभावव्यवहितानां ते तथोक्ताः तेषु । देशकालाकारविप्रकृ
For Private And Personal Use Only