________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
४५
तत्रास्तित्वसिद्धिरिति चेन्न । पुनस्तद्विषयस्मरणान्यथानुपपत्त्या तत्सिद्धेः । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । तत्रापि गोदर्शनं निश्चयात्मकमेव पुनस्तद्विषयस्मरणान्यथानुपपत्तेः । यत्र निश्चयाभावस्तत्र स्मरणं नोत्पद्यते यथा गच्छत्तृणस्पर्शने । अस्ति च पुनः तत्स्मरणमित्यनुमानविकल्पास्तित्वसिद्धेः तत्स्वलक्षणव्यावृत्तिसिद्धिवत् । न हि तव्यावृत्तिरध्यक्षतः सिद्धा तथाऽननुभवनात् । ततः स्थितं निश्चयः प्रमाणमविसंवादादिति ॥
एतदेव समर्थयमानः प्राह-- अक्षधीस्मृतिसंज्ञाभिश्चितयाऽऽभिनिबोधिकैः ॥ व्यवहाराविसंवादस्तदाभासस्ततोऽन्यथा ॥४॥
प्रमाणमित्यनुवर्तते । तेनाभिसंबंधादक्षध्यादीनां प्रथमांतत्वमर्थवशाद्विभक्तिविपरिणाम इति न्यायात् । तत एवं व्याख्यायते- अक्षधीस्मृतिसंज्ञाभिश्चितयाऽऽभिनिबाधिकैश्च व्यवहारे हानोपदानरूपेऽविसंवादाव्यभिचारः सकलव्यवहारिणां प्रतीतिसिद्धः । ततस्तानि प्रमाणं भवंतीत्यर्थः । अझैर्जनिता धीः अक्षधीः । सांव्यवहारिकप्रत्यक्षं । स्मृतिरतीतार्थावर्शिनी । संज्ञा प्रत्यभिज्ञा । चिंता तर्कः आभिनिबोधिकमनुमानं । अभिनिबोधो हेतोरन्यथानुपपत्तिनियमनिश्चयस्तत्र भवमाभिनिबोधिकमिति व्याख्यानात् । एतैश्च प्रमेयं
For Private And Personal Use Only