________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
भट्टाकलंकप्रणीतं ननु स्वसंवेदनादिप्रत्यक्षबुद्धौ विकल्पा न संत्येवानुपलक्षणादिति प्रत्यवस्थां निराकुर्वन्नाहप्रतिसंविदितोत्पत्तिव्ययाः सत्योऽपि कल्पनाः॥ प्रत्यक्षेषु न लक्षेरैस्तत्स्वलक्षणभेदवत् ॥३॥
न लक्षेरन् न विविच्येरन् । काः कल्पना विकल्पाः । केषु प्रत्यक्षेषु स्वसंवेदनादिषु । किंविशिष्टा अपि सत्योऽ पि विद्यमाना अपि । पुनः कथंभूताः प्रतिसंविदितोत्पत्तिव्ययाः उत्पत्तिः स्वरूपलामः व्ययोऽभावप्रत्ययः प्रतिसंविदितौ प्रतिप्राणिसमुपलब्धौ उत्पत्तिव्ययौ यासां तास्तथोक्ताः । न खलु सत्त्वं विना उत्पादव्ययवत्त्वमनुभूयते । अन्यथाऽतिप्रसंगात् । न चोत्पादव्ययवत्त्वं विकल्पानामसिद्धं कार्यकारणप्रबंधेन प्रवर्तमानत्वात् । न हि निर्विकल्पकाद्विकल्प उत्पत्तुमर्हति । तस्याकिंचित्करणत्वात् विकल्पोत्पादनशक्तिवैकल्यात् । ननु सतां विकल्पानां प्रत्यक्षबुद्धावनुपलक्षणे किं कारणमिति चेत्प्रतिपत्तुरशक्तिरप्रणिधानं चेति ब्रूमः । अत्र निदर्शनमाह- तदित्यादि । तेषां विकल्पानां स्वलक्षणं स्वरूपं तस्य भेदः सजातीयविजातीयव्यावृत्तिः स इव तद्वत् । अयमर्थः यथा प्रतीतोत्पादव्यया सत्यपि स्वलक्षणव्यावृत्तिः कल्पनासु न लक्ष्यते अनुमानत एव तसिद्धेः तथा प्रत्यक्षेषु कल्पना अपि न लक्ष्यंत इति । तर्हि कथमलक्षितानां तासां
For Private And Personal Use Only