SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ४३ तन्निभं च ते इति वचनात् । न हि ज्ञानं स्वरूपे विसंवादि तस्याहंप्रत्ययसिद्धत्वात् । प्रसिद्धे च विषये प्रवर्तमानं कथमप्रमाणं स्यादिति ॥ ___ अथेदानीं यत्सौगतैः परिकल्प्यते विकल्पज्ञानं प्रत्यक्षाभासमिति तन्निराकुर्वन्नाहस्वसंवेद्यं विकल्पानां विशदार्थावभासनं ॥ संहताशेषचिंतायां सविकल्पावभासनात् ॥२॥ भवति । किं स्वसंवेद्यं स्वेन तत्त्वज्ञानात्मना संवेद्यं ग्राह्य स्वसंवेद्यं ज्ञानस्वरूपमित्यर्थः । वेद्यवेदकाकारद्वयाविरोधात ज्ञानस्य अन्यथा अवस्तुत्वापतेः । किंविशिष्टं विशदार्थावभासनं अर्थस्य परमार्थसतोऽवभासनमवबोधनमर्थावभासनं । विशदं स्पष्टं तच्च तदर्थावभासनं च तत्तथोक्तं । केषां विकल्पानां घटोऽयं गौरयं शुक्लोऽयं गायकोऽयमित्यादि निश्चयज्ञानानां । कुतः सविकल्पावभासनात् विकल्पो जात्याद्याकारावबोधः सह विकल्पेनेति सविकल्पकं तस्यावभासनादनुभवात् । कदा संहृताशेषचिंतायां संहृता नष्टा अशेषाः स्मृत्यादयश्चिता विकल्पा यस्यामवस्थायां सा तथोक्ता तस्यां । चक्षुरादिबुद्धौ जात्याद्याकारविशेषस्यावबोधनस्याप्रतिहतत्वात्ततो विकल्पज्ञानस्य प्रत्यक्षाभासत्वमयुक्तमित्यर्थः ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy