________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२
भट्टाकलंकप्रणीतं
प्रत्यक्षाभं कथंचित्स्यात्प्रमाणं तैमिरादिकं । यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं ॥ १ ॥
स्याद्भवेत् । किं प्रत्यक्षाभं प्रत्यक्षप्रमाणाभासमित्यर्थः अक्षमिंद्रियानिंद्रियं प्रति नियतं प्रत्यक्षं ज्ञानमात्रं तदिवाभातीति व्युत्पत्तेः । किंविशिष्टं तैमिरादिकं तिमिरादागतं तैमिरं तदादिर्यस्याशुभ्रमणादेस्तथोक्तं । तत्किं स्यात् प्रमाणं भवति । कथं कथंचित् भावप्रमेयापेक्षया द्रव्यापेक्षया वा न सर्वथा प्रमाणाभासमेव । बहिरर्थाकारविषय एव ज्ञानस्य विसंवादात् । स्वरूपापेक्षया तस्याविसंवादात् । अत्राविनाभावं दर्शयति यदित्यादि यत् ज्ञानं यथैव यावद्विषयावबोधनप्रकारेणाविसंवादि विसंवादो गृहीतार्थव्यभिचारस्तद्रहितं अविसंवादि तत् ज्ञानं तथा तावद्विषयावबोधनप्रकारेण प्रमाणं मतमिष्टं परीक्षकैरिति । तथाहि सर्वं संशयादिकं प्रमाणाभासं स्वरूपापेक्षया द्रव्यापेक्षया वा प्रमाणं भवति तत्राविसंवादित्वात् । यद्यत्राविसंवादि तत्तत्र प्रमाणं यथा रसे रसज्ञानं । अविसंवादि च संशयादिकं स्वरूपे द्रव्यरूपादौ वा । ततस्तत्र तत्कथंचित्प्रमाणमिति । विसंवाद एव खल्वप्रामाण्यनिबंधनं अविसंवादश्च प्रामाण्यनिबंधनमिति न्यायस्य सकलवादिसंमतत्वात् । सर्वथाप्रमाणाभासत्वस्य न्यायशून्यत्वात् । बहिः प्रमेयापेक्षायां प्रमाण
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only