SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ४१ हतुत्वसमर्थनात् । अविनाभावो हि गम्यगमकभावनिबंधनं नान्यत् । स चात्राप्यस्तीत्यर्थापत्तिरनुमानमेव । एतेनाभावः प्रमाणांतरमित्यपि निरस्तं । प्रत्यक्षादिप्रमाणस्यैव भावाभावात्मवस्तुविषयत्वेन तथा व्यवहारात् । न खल्वेकांततो भावविषयं प्रमाणमभावविषयं वा ततोऽर्थक्रियानुपपत्तेः । यद्यभावः स्वतंत्रः स्यात्तदा तद्ग्राहकप्रमाणांतरं कल्पनीयं । तस्य घटो नास्तीति भावतंत्रस्यैवोपलंभात् । भावग्राहकेणैव तद्ग्रहणात् । किं च भावग्राहकज्ञानादभावग्राहकं ज्ञानमन्यदेवेति निबंधे सामान्यग्राहकाद्विशेषग्राहकं नित्यत्वग्राहकादनित्यत्वग्राहकमपि प्रमाणांतरमेव भवेदिति न काप्यवयविसिद्धिः स्यात् । तन्नाभावाख्यं प्रमाणांतरं विषयाभावात्केशोंडुकज्ञानवदिति सुस्थितं परोक्षं स्मृत्याद्यविशदज्ञानत्वादत्रैव सकलास्पष्टज्ञानानामंतर्भावादिति ॥ स्पृष्टोऽकलंकचंद्रोद्धगवीभिर्विशदेतरः॥ तत्र प्रमाणभेदे स्यात्सोरी गौः किं न भासिनी ॥१॥ इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणायां परोक्षपरिच्छेदस्तृतीयः ॥ ३ ॥ एवं सम्यग्ज्ञानलक्षणप्रमाणं प्रत्यक्षपरोक्षभेदं द्रव्यपर्यायात्मकार्थविषयमज्ञाननिवृत्त्यादिफलं च प्रतिपाद्येदानीं प्रमाणाभासं निरूपयन्नाह For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy