________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
भट्टाकलंकप्रणीतं
तर्हि सर्वं नैयायिकमीमांसकादिकल्पितं उपमानं कुतः प्रमाणं स्यादविशेषात् । न हि सादृश्यसंबंधज्ञानं प्रमाणं न पुनर्वाच्यवाचक संबंधज्ञानमिति विशेषोऽस्ति । ततः संज्ञासंज्ञिसंकलनमपि प्रमाणांतरमेव भविष्यतीति कुतः प्रमाणसंख्यानियमः ॥ न केवलमेतदेव प्रमाणांतरमपि तु अन्यदपीति दर्शयन्नाहूइदमल्पं महद् दूरमासन्नं प्रांशु नेति वा ॥ व्यपेक्षातः समक्षेऽर्थे विकल्पः साधनांतरं १२
Acharya Shri Kailassagarsuri Gyanmandir
साधनांतरं प्रमाणांतरं स्यात् । किं विकल्पो निश्चयः । तस्योल्लेखमाह- इदमस्मादल्पं । इदमस्मान्महत् । इदमस्मादासन्नं । इदमस्मात्प्रांशु दीर्घं । इदमस्मान्न प्रांशु इति । वाशब्दः परस्परसमुच्चये । कस्मिन् समक्षे प्रत्यक्षे पदार्थ । कुतः व्यपेक्षातः विरुद्धस्य प्रतिपक्षस्यापेक्षा कथंचिदजहद्वृत्तिस्तत इति । एवमल्पमहत्त्वादिसंकल्पनमपि परप्रमाणसंख्यानियमं विघटयतीत्यर्थः ॥ ननु स्याद्वादिना - मप्येवं प्रमाणसंख्या कथं न विहन्यत इति चेन्न । तन्मते परोक्षभेदे प्रत्यभिज्ञाने सादृश्य संकलनादीनामंतर्भावात् । नन्वर्थापत्तेः प्रमाणांतरत्वमनुमंतव्यमेव तस्याः क्वाप्यनंतर्भावादिति चेन्न । अनुमानेंऽतर्भावात् । नदीपूरादेरुपरि वृष्टया - विनाभावित्वेन लिंगत्वात् । लिंगजज्ञानस्य चानुमानत्वात् । पक्षधर्मत्वाभावात्तस्यालिंगत्वमिति चेन्न । अपक्षधर्मस्यापि
For Private And Personal Use Only