________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. तोऽर्थो गोरूपस्तेन साधर्म्यात् सादृश्यात् । उपजायमानं साध्यस्य ज्ञेयस्य तत्सादृश्यविशिष्टस्य गवयलक्षणस्य साधनं गोसदृशो गवय इति ज्ञानं यद्युपमानं प्रमाणांतरमभ्युपगम्यते । तदा तद्वैधात् प्रसिद्धार्थवैसादृश्यादुपजायमानं साध्यसाधनं गोविलक्षणो महिष इति ज्ञानं । किं प्रमाणं स्यात् तस्य किं नामेत्याक्षेपः । न हि तदुपमानमेव तल्लक्षणाभावात् । नापि प्रत्यक्षादि भिन्नविषयत्वाद्भिन्नसामग्रीप्रभवत्वाच्च । तथा संज्ञिनो वाच्यस्य प्रतिपादनं च विवक्षितसंज्ञाविषयत्वेन संकलनं यथा वृक्षोऽयमिति । तदपि किं नाम प्रमाणं स्यादित्याक्षिप्यते । न खलु संज्ञासंज्ञिसंबंधज्ञानमप्रमाणं आगमप्रामाण्यविलोपापत्तेः । उपमानाप्रमाण्यापत्तेश्च ॥
एतदेव समर्थयतेप्रत्यक्षार्थांतरापेक्षा संबंधप्रतिपद्यतः॥ तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा ॥११॥
यतो यस्माज्ज्ञानाद्भवति। का संबंधप्रतिपत् संबंधस्य वाच्यवाचकभावस्य प्रतिपत् ज्ञप्तिः। किंविशिष्टा प्रत्यक्षार्थांतरापेक्षा प्रकृतात् शब्दलक्षणादर्थादन्योऽर्थोऽर्थांतरं प्रत्यक्षं च तदर्थांतरं च प्रत्याक्षार्थांतरं वृक्षादि तत्तथोक्तं । तस्यापेक्षा यस्यां सा प्रत्यक्षार्थांतरापेक्षा । तज्ज्ञानं चेद्यदि न प्रमाणं स्यात्तदा
For Private And Personal Use Only