________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
भट्टाकलंकप्रणीतं किं पुनः सिध्द्येत् न सिध्येदित्यर्थः । का धीर्बुद्धिः । किंविशिष्टा निश्चयात्माऽनुमानबुद्धिरित्यर्थः । पुनरपि कथंभूता विकल्पाविकल्पात्मा विकल्पो व्यवसायः अविकल्पोऽ व्यवसायः तावात्मानौ यस्याः सा तथोक्ता। क बहिरंतश्च अत्र यथासंख्यमभिसंबंधः कर्तव्यः । बहिर्घटादिविषये विकल्पात्मा अंतः स्वरूपे निर्विकल्पात्मा चेति । कुतो न सिध्द्येत् स्वतः स्वसंवेदनात्तस्य निर्विकल्पकत्वेन विकल्पाविषयत्वात् । सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनमिति वचनात् । न केवलं स्वतः, अपि तु परतोऽपि किं पुनः सिध्धति परस्माद्विकल्पांतरादपि न सिध्धतीत्यर्थः । कुतः अनवस्थितेः तदपि विकल्पांतरतः स्वतो न सिध्द्यत्यगोचरत्वात् । तत्रापि तसिध्द्यर्थं विकल्पांतरं कल्पनीयमिति क्वचिदप्यनुपरमात् । ततोऽनुमानस्यासिद्धेः कथं बौद्धकल्पितः प्रमाणसंख्यानियमो घटत इति भावः ॥ . ननु भवतामपि प्रमाणद्वैविध्यनियमो न व्यवतिष्ठते उपमानस्य प्रमाणांतरस्यासंग्रहादिति नैयायिकादिप्रत्यवस्थां विहस्तयस्तन्मतेऽपि संख्यानियमं विघटयति
उपमानं प्रसिद्धार्थसाधात्साध्यसाधनं ॥ तद्वैधात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनं ॥ अत्र यदित्येतदध्याहियते । प्रसिद्धप्रमाणेन निश्चि
For Private And Personal Use Only