SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ननु मायात्सौगतमतेऽनुपलब्धिलिंगं कार्यखभावलिंगद्वयं भविष्यतीति चेत्तदपि न घटते इत्याहअनंशं बहिरंतश्च प्रत्यक्षं तदभासनात् । कस्तत्स्वभावो हेतुः स्यात्किं तत्कार्यं यतोऽनुमा यत् सौगतैः परिकल्पितं । बहिरचेतनमंतश्चेतनं । निरंशं अंशा द्रव्यक्षेत्रकालभावविभागास्तेभ्यो निष्क्रांतं निरंशं तदप्रत्यक्षं प्रत्यक्षाविषयः । कुतः तदभासनात् तस्य निरंशत्वस्याभासनादननुभवात् । न खलु द्रव्यादिविभागरहितं चिदचिद्वा तत्त्वं प्रत्यक्षबुद्धौ प्रतिभासते । तत्र नित्यानित्याद्यनेकांशव्यापित्वेन वस्तुनः प्रतीतेः । ततस्तस्य निरंशस्य प्रत्यक्षतोऽसिद्धस्य स्वभावो धर्मः को हेतुर्लिंगं स्यात् । न कोऽपीत्यर्थः । प्रमाणतोऽसिद्धस्याहेतुत्वात् । तस्य कार्य च किं नु हेतुः स्यात् । सर्वथानिरंशस्यापरिणामिनः कार्यकारणायोगात् । यतोऽनुमा भवेदित्याक्षेपवचनं न कुतोऽपीत्यर्थः । तन्न सौगतमतेऽनुमानं प्रामाण्यमास्कंदत्यनुपपत्तेः ॥ किं चानुमानं विकल्पात्मकं सौगतमते न सिध्द्यत्येवेति प्रतिपादयतिधीविकल्पाविकल्पात्मा बहिरंतश्च किं पुनः ॥ निश्चयात्मा स्वतः सिध्द्येत्परतोऽप्यनवस्थितेः ९ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy