SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३६ भट्टाकलंक प्रणीतं वीक्ष्याणुपरिमांडल्य क्षणभंगाद्यवीक्षणं ॥ स्वसंविद्विषयाकारविवेकानुपलंभवत् ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir वीक्ष्यमुपलब्धिलक्षणप्राप्तं स्थूलं तस्याणवः सूक्ष्मा भावा अवयवास्तेषां पारिमांडल्यं वर्तुलत्वमन्योन्यविवेकः क्षणेक्षणे भंगः क्षणभंगः समयं प्रति नाश इत्यर्थः । स आदिर्यस्य कार्यकारणसामर्थ्यादेरसौ तथोक्तः वीक्ष्याणुपारिमांडल्यं च क्षणभंगादिश्च तत्तथोक्तं । तस्यावीक्षणं प्रत्यक्षेणानुपलंभोऽ शक्तिः । न खलु सांव्यवहारिकप्रत्यक्षेण क्षणभंगादिवक्ष्यते तेन स्थिरस्थूलसाधारणाकारस्यैव वीक्षणात् । योगिप्रत्यक्षस्यैव तद्वीक्षणसामर्थ्यात् । ततस्तत्रानुमानमेव जागर्ति तस्य तन्निर्णयसामर्थ्यादित्यर्थः । सत्त्वात्प्रमेयत्वादर्थक्रियाकारित्वादित्यादिहेतूनां कथंचिदने कानित्यादिधर्मव्याप्यत्वात्तदविनाभावप्रसिद्धेः । प्रकृतार्थे दृष्टांतमाह- स्वसंविदित्यादि । स्वसंवित्स्वसंवेदनं तस्या विषयाकारों घटाद्याकारस्तस्माद्विवेको व्यावृत्तिस्तस्यानुपलंभः प्रत्यक्षेणाग्रहणं तद्वत् । यथा ज्ञानस्य स्वरूपप्रतिभासने बहिरर्थाकारनिवृत्तिर्विद्यमानेनापि न प्रतिभासते सौगतानां तस्य तादृक्सामर्थ्याभावात् तथा बहिरंतश्चाणुपारिमांडल्यादि प्रत्यक्षेण न प्रतिभासते तथाशक्त्यभावात् । अतोऽनुमानमनेकांतमते सफलमित्यर्थः ॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy