________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
३५ सँस्कर्तृणां पातकित्वप्रसंगात् । तद्भावेऽप्यनाश्वासात् । यथैव शुष्णस्पर्शाद्याकारोपलंभात्परचित्तादेर्भावः साध्यते तथा तदनुपालंभादभावोऽपीत्यर्थः । ननु कार्योपलब्धेः कारणसत्ता सुघटा साधयितुं न तु तदनुपालंभात् कारणाभावः । कारणस्य कार्येण सहाविनाभावाभावादिति चेन्न । एवं निबंधाभावात् । कार्यजननसमर्थस्य कारणस्य तेनाविनाभावोपपत्तेः । सति समर्थे कारणे कार्यस्यावश्यं भावात् । अन्यथा न कदापि कार्योत्पत्तिरिति सर्वस्यार्थक्रियाकारित्वाभावात् शून्यताप्रसंगात् । तत उपलब्ध्यनुपलब्धिभेदाल्लिंग द्विविधं । तत्रोपलब्धिर्विधौ साध्ये षोढा प्रतिषेधे च तथा । अनुपलब्धिश्च प्रतिषेधे सप्तधा। विधौ तु विधेति सुव्यवस्थितं । सर्वत्राविनाभावनियमनिश्चयैकलक्षणबलाद्गमकत्वसिद्धेः । नन्वदृश्यानुपलब्धेरभावे संशय एव स्यादिति चेन्न । एवमुपलब्धेः स्वचित्ताभावेऽपि संशयप्रसंगात् । किंच बहिरंतश्च निरंशं तत्त्वं न प्रमाणपदवीमधिरोहति । क्रमाक्रमाभ्यामनेकस्वभावे बहिरंतस्तत्वे प्रमाणस्य प्रवृत्तेः । ततः प्रमाणबाधितविषयत्वात्सौगतपरिकल्पितं सर्व सत्त्वादिसाधनमकिंचित्करं विरुद्धमेव वा स्यादिति कुतस्तन्मतेऽनुमानस्य प्रामाण्यमिति ॥
ननु स्याद्वादिनामप्यनेकात्मकस्य तत्त्वस्य प्रत्यक्षसिद्धत्वादनुमानवैफल्यप्रसंग इत्याशंकायामिदमाह
For Private And Personal Use Only