________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्.
ष्टेष्वित्यर्थः । न हि श्रुतादर्थं परिच्छिद्य प्रवर्तमानो रसाय - नादिक्रियायां विसंवाद्यते ग्रहणादौ वा मलयादिप्राप्तौ वा । ततोsनाश्वासमविश्वासं न कुर्वीरन् परीक्षकाः । कुतः कचि - तद्व्यभिचारतः कचिन्नदीतीरे मोदकादिप्रतिपादने तस्य श्रुतस्य व्यभिचारो विसंवादस्तस्मात् । न हि कचिद्विसंवादादप्रामाण्ये ज्ञानस्य सर्वत्राप्रामाण्यं शंकनीयं प्रत्यक्षादिष्वपि तथात्वप्रसंगात् सकलव्यवहारविलोपापत्तेः । श्रुतविषये वादिनां विप्रतिपत्तिदर्शनादप्रामाण्यमिति चेत् प्रत्यक्षादावपि तत एवाप्रामाण्यमस्तु विशेषाभावात् । यथैव हि परलोकपुण्यपापसर्वज्ञादौ श्रुतविषये वादिनां विप्रतिपत्तिस्तथा प्रत्यक्षादिविषयेऽपि जीवाद्यर्थे सदसन्नित्यानित्यादिविप्रतिपत्तिरस्तीति । ततोऽविसंवादकृता प्रामाण्येतरव्यवस्था श्रुतस्यान्यस्य वा प्रतिपत्तव्या न्यायत्वात् ॥ श्रुतस्य सर्वत्राप्रामाण्यशंकायामतिप्रसंगं दर्शयति
For Private And Personal Use Only
www
४७
क
प्रायः श्रुतेर्विसंवादात्प्रतिबंधमपश्यतां ॥ सर्वत्र चेदनाश्वासः सोऽक्षलिंगधियां समः ६ चेद्यदि भवेत् । कः अनाश्वासः अविश्वासः । सर्वत्र अविसंवादिश्रुतिप्रामाण्ये । केषां प्रतिबंधमपश्यतां शब्दार्थयोः सहजयोग्यतालक्षणं संबंधमनीक्षमाणानां सौगतानां । कस्मात् विसंवादात् । कस्याः श्रुतेरागमस्य । कथं प्रायः कचित्कदाचिदित्यर्थः । तदा सोऽनाश्वासः