SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. ३३ बंधनं । न कार्यत्वमन्यद्वा । अविकलसामर्थ्यस्य कारणस्य कार्यजननं प्रत्यव्यभिचारात् । न खलु पादपस्यातपच्छायाव्यभिचारो मणिमंत्राद्यप्रतिबद्धसामर्थ्यस्यामेः स्फोटादिव्यभिचारो वाऽस्ति । अन्यथा न कदाऽपि कार्योत्पत्तिरित्यसत्त्वमेव वस्तुनः स्यात् । अर्थक्रियाविरहात् ॥ इदानीं पूर्वचरस्यापि लिंगत्वं ख्यापयन्नाह---- भविष्यत्प्रतिपद्येत शकटं कृत्तिकोदयात् ॥ श्व आदित्य उदेतेति ग्रहणं वा भविष्यति ५ सोपस्काराणि हि सूत्राणि । तदेवं व्याख्यायते । शकटं रोहिणी धर्मी । मुहूर्तीते भविष्यदुदेष्यदिति साध्यधर्मः । कुतः ? कृत्तिकोदयादिति साधनं । न खलु कृत्तिकोदयः शकटोदयस्य कार्य स्वभावो वा। केवलमविनाभावबलाद्गमयत्येव स्वोत्तरचरमिति प्रतिपद्येतानुमन्येत सर्वोऽपि जन इति । तथा श्वः प्रातरादित्यः सूर्यः । उदेता उदेष्यति । अद्यादित्योदयादिति प्रतिपद्येत । तथा श्वो ग्रहणं राहुस्पर्शी भविष्यति एवंविधफलकांकादिति वा प्रतिप्रद्येत । सर्वत्राव्यभिचारात् । क्रमभावनियमस्य कार्यकारणवत् पूर्वोत्तरचरयोरप्यविरोधात् । तदेवं पक्षधर्मत्वादिकं विनाऽपि हेतोरन्यथानुपपत्तिसामर्थ्याद्गमकत्वसंभवात् । कार्यस्वभावानुपलब्धिभेदात् वैविध्यनियमोऽपि लिंगस्यापास्तः । अनेनैव कारणं For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy