________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
भट्टाकलंकप्रणीतं
स श्यामस्तत्पुत्रादित्यादौ हेत्वाभासेऽपि दर्शनात् । विवादाध्यासिते तत्पुत्रे अन्यत्र श्यामे च तत्पुत्रत्वात् । अश्यामे च क्वचित्तत्पुत्रत्वस्यासत्त्वात् । अत्र विपक्षाध्यावृत्तेर्नियमाभावादहेतुलक्षणत्वमिति चेन्न स एवाविनाभावस्तल्लक्षणमस्तु किमन्येनांतर्गडुना। तदुक्तं -
“ अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं " इति ।
अनेनासत्प्रतिपक्षत्वमबाधितविषयत्वमपि तल्लक्षणं निरस्तं अविनाभावाभावे गमकत्वायोगात । सोऽप्यविनाभावो द्वेधा वर्तते सह क्रमेणचेति । तत्र सहाविनाभावः सहचारिणो रूपरसयोापकयोश्च वृक्षत्वशिशिपात्वयोः साध्यसाधनयोवर्तते । क्रमाविनाभावस्तु पूर्वोत्तरचरयोः कृत्तिकोदयशकटोदययोः कार्यकारणयोधूमधूमध्वजयोश्च वर्तते ॥
ननु तादात्म्यतदुत्पत्तिभ्यामविनाभावो वर्तते । ततो व्याप्यमेव व्यापकस्य लिंग कार्य च कारणस्येति द्विविधमेव विधिसा धनमिति सौगतविप्रतिपत्तिं निराकुर्वन् कारणस्यापि लिंगत्वमाहचंद्रादेर्जलचंद्रादिप्रतिपत्तिस्तथाऽनुमा ॥४॥
चंद्र आदिर्यस्यादित्यादेरसौ चंद्रादिस्तस्मात्कारणभूतात् । जले स्वच्छांभसि । चंद्रादेश्चंद्रादिप्रतिबिंबस्य । प्रतिपत्तिरवबोधोऽनुमानमनुमंतव्यमव्यभिचारात् । किंवत् तथा कार्यात्कारणप्रतिपत्तिवत् । अविनाभावो हि गम्यगमकभावनि
For Private And Personal Use Only