SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. अनुमानं प्रमाणं भवति । किं लिंगिधीर्लिंगिनः साध्यस्य धीनिमित्यर्थः । लिंगमविनाभावसंबंधोऽस्यास्तीति लिंगीति विग्रहात् । तस्योत्पत्तिकारणमाह- लिंगात् साधनात् । साध्याविनाभावामिनिबोधैकलक्षणात् साध्येन इष्टाबाधितासिद्धरूपेण सहाविनाभावोऽन्यथानुपपत्तिनियमः तस्याभितो देशकालांतरव्याप्त्या निबोधो निर्णयः स एकं प्रधानं लक्षणं खरूपं यस्य तत्तथोक्तं तस्मालिंगादुत्पद्यमाना लिंगिधीरनुमानमित्यर्थः । नन्वस्य तर्कफलत्वात्कथं प्रमाणत्वमित्याशंक्याह- तत्फलं हानादिबुद्धयः हानं परिहारः आदिशब्देनोपादानमुपेक्षा च गृह्यते । तासां बुद्धयो विकल्पास्तस्यानुमानस्य फलं भवंति । ततः फलहेतुत्वादनुमानं प्रमाणं प्रत्यक्षवदित्यभिप्रायः। न चास्याप्रामाण्ये प्रत्यक्षस्य प्रामाण्यमुपपन्नं अगौणत्वादिहेतुप्रयोगानुपपत्तेः। क्वचिदभ्यस्तविषये स्वतःप्रामाण्यसिद्धावपि तस्यानभ्यस्तविषयेऽ नुमानत एव तत्सिद्धिः । परलोकादिनिषेधस्याप्यनुपलब्धिसाध्यत्वेन नानुमानमपलापार्ह । परचैतन्यप्रतिपत्तौ वा व्यवहारादिलिंगजानुमानप्रामाण्यात् । तन्नानुमानमप्रमाणं कल्पनीयं युक्तिविरोधात् । ननु पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाघ्यावृत्तिरिति रूपत्रयस्य हेतुलक्षणत्वादेकलक्षणत्वमनुपपन्नं । अन्यथाऽसिद्धविरुद्धानेकांतिकदोषाव्यवच्छेदादिति चेन्न असाधारणस्वरूपस्यैव लक्षणत्वात् । न खलु रूपत्रयमसाधारणं For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy