SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० भट्टाकलंकप्रणीतं अविकल्पधिया लिंगं न किंचित्संप्रतीयते ॥ नानुमानादसिद्धत्वात् प्रमाणांतरमांजसं ॥२॥ लिंग साध्यसाधनयोरविनाभावः । किंचिदीषदपि । न संप्रतीयते न सामस्त्येन ज्ञायते । कया अविकल्पधिया निर्विकल्पकप्रत्यक्षेण सौगताभिप्रेतेन । यावान् कश्चिद्धूमः स सर्वोऽपि अग्निजन्मैवानमिजन्मा वा न भवतीत्येतावद्विकल्पविकलत्वात् तस्य । अन्यथा सविकल्पकत्वापत्तेः । नन्वस्तु सविकल्पकात्प्रत्यक्षादविनाभावनिर्णय इत्यप्ययुक्तं । तस्यापि संबंधवर्तमानविषयत्वेन देशकालांतरव्यवहितसाध्यसाधनव्यक्तिगतव्याप्तिविकल्पानुपपत्तेः । तन्न प्रत्यक्षेणाविनाभावनिर्णयः । नाप्यनुमानात् तस्यैवासिद्धत्वात् । व्याप्तिग्रहणपूर्वकत्वादनुमानोत्थानस्य । अनुमानांतरात्तत्राप्यविनाभावनिर्णये चानवस्थाप्रसंगात् । प्रथमानुमानात् द्वितीयानुमाने व्याप्तिनिर्णय इति चेत्सोऽयं परस्पराश्रयदोषः। तन्नानुमानमपि व्याप्तिग्राहकमिति तद्ग्राहकं प्रमाणांतरं तर्काख्यं । आंजसं पारमार्थिकं न मिथ्या विकल्पात्मकमभ्युपगंतव्यं । अन्यथाऽनुमानप्रामाण्यायोगात् ॥ किं पुनरनुमानं प्रमाणमित्यनुयोगे सूत्रमिदमाहलिंगात्साध्याविनाभावाभिनिबोधैकलक्षणात् । लिंगिधीरनुमानं तत्फलं हानादिबुद्धयः ॥३॥ For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy