SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लघीयस्त्रयम्. २९ संबध्यते । न केवलमेवमपि तु शब्दानुयोजनाच्च शब्दोच्चारणाच्च समुत्पद्यते इत्यर्थः । तस्य कारणमाह- मतिः मतिसंज्ञं ज्ञानं सांव्यवहारिक प्रत्यक्षमाद्यं कारणमित्यर्थः । तत्र धारणाबलोदभूताऽतीतार्थविषया तदिति परामर्शिनी स्मृतिः। न स्मृतिः प्रमाणं गृहीतग्राहित्वादिति चेन्न । तद्विषयस्यातीताकारस्य प्रत्यक्षादिनाऽगृहीतत्वात् । असति प्रवृत्तेः स्मृतेरप्रामाण्यमित्यप्यचारु । देशादिविशेषेण सत एव ग्रहणात् सर्वथाऽसत्त्वानुपपत्तेः । अन्यथा प्रत्यक्षविषयस्याप्यसत्त्वप्रसंगात् । ततः स्मृतिः प्रमाणं प्रत्यभिज्ञानप्रामाण्यान्यथानुपपत्तेः । किं पुनः प्रत्यभिज्ञानमिति चेदुच्यते । प्रत्यक्षस्मृतिहेतुकं संकलनमनुसंधानं प्रत्यभिज्ञानं संज्ञा । यथा स एवायं देवदत्तः, गोसदृशो गवयः, गोविलक्षणो महिषः, इदमस्मादल्पं, इदं महत्, इदमस्माद् दूरं, इदमस्मात्प्रांशु, वृक्षोऽयमित्यादि पूर्वोत्तराकारव्यापिनो द्रव्यस्य तद्विषयस्य दर्शनस्मरणाभ्यामगृहीतत्वात् । तर्कप्रमाणान्यथानुपपत्तेश्च प्रत्यभिज्ञानं प्रमाणं । अन्यथा दत्तग्रहादिसकलव्यवहारविलोपापत्तेः । कः पुनस्तर्क इति चेदुच्यते । अन्वयव्यतिरेकाभ्यां व्याप्तिज्ञानं दर्शनस्मरणाभ्यामगृहीतप्रत्यभिज्ञाननिबंधनं तर्कः चिंता, यथाऽनौ सत्येव धूमस्तदभावे न भवत्येवेति ॥ नन्वविनाभावस्य प्रत्यक्षेणानुमानेन वा निर्णयात्किमिति तर्काख्यं प्रमाणांतरं परिकल्पितमित्याशंकायामाह - For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy