SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ भट्टाकलंकप्रणीतं ग्रहणं संशयः स्यारुन्न वस्तुनो भावः प्रकल्पेत निर्णातस्य भावात्मकत्वात् । ततो विरोधादिदोषरहितमनेकांतात्मकमेकाशीतिविकल्पं वस्तु स्थित्युत्पादव्ययात्मकत्वादवगंतव्यं । भूतभवद्भाविकालभेदात्प्रत्येकं स्थित्यादीनां त्रिविधत्वेन नव भेदाः। तथाहि स्थितं तिष्ठति स्थास्यति । उत्पन्नं उत्पद्यते उत्पत्स्यते । नष्टं नश्यति नंक्ष्यतीति । तत्परिणामानां स्थितत्वादीनां नवानामपि प्रत्येकं स्थितादिनवप्रकारसम्भवादेकाशीतिविकल्पोपपत्तेः । तदेवं सुस्थितो बहिरन्तश्च प्रमाणार्थो द्रव्यपर्यायात्मेति ॥ अकलंकप्रभाव्यक्तं प्रमेयमखिलं पुनः । पश्यति मादृशाः किं न प्रबुद्धाः शुद्धदृष्टयः ॥ १॥ इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्यद्वादभूषणसंज्ञायां प्रमाणविषयपरिच्छेदो द्वितीयः ॥ २ ॥ अथेदानीं परोक्षस्य कारणभेदप्ररूपणामाह-- ज्ञानमायं मतिस्संज्ञा चिंता चाभिनिबोधनं ॥ प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् १ शेष यदविशदं परोक्षमित्युक्तं तदित्यर्थः । कतिधा स्मृतिः संज्ञा चिंता आभिनिबोधकं श्रुतं चेति चशब्देन स्मृतेः समुच्चयात् । एतच्च पंचविधं परोक्षं नामयोजनात्प्राक् शब्दप्रयोगात् पूर्वमुत्पद्यत इत्यध्याहारः। चशब्दो भिन्नप्रक्रमत्वेनात्रापि For Private And Personal Use Only
SR No.090263
Book TitleLaghiyastrayadisangrah
Original Sutra AuthorN/A
AuthorManikchand Digambar Jain Granthamala Samiti
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1972
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy