________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघीयस्त्रयम्. न्मतं- सत्त्वासत्त्वयोर्वस्तुनो भेदाभेदात्मकत्वात्तयोरपि ततोऽ परभेदात्मकत्वकल्पनायामनवस्थाप्रसंगादिति । तदेतदविचारितवचनं । द्रव्यार्थिकनयविवक्षया हि वस्त्वभेदात्मकं प्रतिपाद्यते । अभेदश्च द्रव्यमेव, नच तस्यापरं द्रव्यांतरं रूपमस्ति । पर्यायार्थिकनयविवक्षया तु भेदात्मकं । भेदश्च पर्याय एव, न चास्यान्यत्पर्यायांतरं रूपं येनानवस्था स्यात् आदेशवशात् प्रतिनियतधर्मव्यवस्थानात् । प्रमाणविवक्षया हि वस्त्वनेकांतात्मकं तत्रानवस्थानस्याप्यदोषत्वात् । मूलक्षतेरभावात् । व्यवहारोपयोगि स्वरूपं हि मूलमुच्यते । तच्च द्रव्यं पर्यायस्तदात्मकं वस्तु वा तत्तनयप्रमाणप्राधान्यात्सिद्धं व्यवहाराय कल्पते इति । वस्तुन्यनंतधर्माणां व्यवहारानुपयोगात् यतस्तदनवस्था दोषाय स्यात् । ज्ञातृशक्तिवैकल्याच्चानवस्थानं वस्तुधर्माणां तत्साकल्यं तु कस्यचित्सर्वं सुस्थितमेव सकलप्रमाणप्रमेयप्रपञ्चव्यापित्वात्तज्ञानस्य । तन्नानवस्थादोषोऽनेकांते संभवति । ननु वस्तुन्यनेकांतात्मनि इदमित्थमिति निर्णयाभावात् संशयः स्याद्यतस्तत्सत्त्वसिद्धिरिति चेन्न । नयार्पणायां सदेव सर्व स्वरूपादिचतुष्टयापेक्षया । असदेव सर्वं पररूपादिचतुष्टयापेक्षयेति निर्णयसद्भावात् । प्रमाणार्पणायां त्वनेकांतात्मकं सर्वमित्यपि निर्णयात् । असदारोपो हि संशयो नाम नायमनेकांतोऽसन् प्रमाणसिद्धत्वात् । यत उभयात्मक
For Private And Personal Use Only